ऊर्ध्वमूलमधःशाखम्...
दिखावट
(१५.१ ऊर्ध्वमूलमधश्शाखं…. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवानुवाच-
- ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
- छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहुः अव्ययम् छन्दांसि यस्य पर्णानि यः तं वेद सः वेदवित् ॥ १ ॥
अन्वयः
[सम्पादयतु]यस्य छन्दांसि पर्णानि (तादृशम्) अश्वत्थम् ऊर्ध्वमूलम् अधःशाखम् अव्ययं प्राहुः । यः तं वेद सः वेदवित् ।
शब्दार्थः
[सम्पादयतु]- ऊर्ध्वमूलम् = ऊर्ध्वस्थितपरमात्ममूलम्
- अधःशाखम् = नीचस्थितकार्योपाधिशाखम्
- अश्वत्थम् = संसारवृक्षम्
- अव्ययम् = अनाद्यन्तम्
- प्राहुः = वर्णयन्ति
- छन्दांसि = वेदाः
- पर्णानि = पत्राणि
- वेद = विजानाति
- वेदवित् = वेदज्ञः ।
अर्थः
[सम्पादयतु]अयं संसारः कश्चित् अश्वत्थवृक्षः । तस्य मूलं पुरुषोत्तमः । सः ऊर्ध्वं वर्तते । कार्योपाधयः हिरण्यगर्भादयः तस्य शाखाः अधः वर्तन्ते । तस्य पर्णानि वेदाः । तादृशः अश्वत्थवृक्षः नश्वरोऽपि प्रवाहवत् अनश्वरः । ईदृशं वृक्षं यः सम्यक् वेत्ति सः वेदज्ञः इति कथ्यते ।