ततः पदं तत्परि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१५.४ ततः पदं तत्परिं…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ततः पदं तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः तम् एव च आद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

अन्वयः[सम्पादयतु]

अस्य रूपम् इह न उपलभ्यते तथा न अन्तः न च आदिः न च सम्प्रतिष्ठा । सुविरूढमूलम् एनम् अश्वत्थं दृढेन असङ्गशस्त्रेण छित्त्वा, ततः यतः पुराणी प्रवृत्तिः प्रसृता तम् एव च आद्यं पुरुषं प्रपद्ये इति मत्वा यस्मिन् गताः भूयः न निवर्तन्ति तत् पदं परिमार्गितव्यम् ।

शब्दार्थः[सम्पादयतु]

सम्प्रतिष्ठा = स्थितिः (मध्यः)
सुविरूढमूलम् = सुदृढमूलम्
असशस्त्रेण = वैराग्यायुधेन
छित्त्वा = द्विधा कृत्वा
पदम् = स्थानम्
परिमार्गितव्यम् = अन्वेष्टव्यम्
पुराणी = प्राचीना
प्रवृत्तिः = संसारप्रवृत्तिः
प्रसृता = प्रवृत्ता
आद्यम् = प्रथमम्
पुरुषम् = परमपुरुषम्
प्रपद्ये = प्राप्नोमि ।

अर्थः[सम्पादयतु]

अस्य अश्वत्थवृक्षस्य ऊर्ध्वमूलत्वादिकं यत्स्वरूपं पूर्वमुक्तं तत् केनापि ज्ञातुं न शक्यते तथा अस्य आदिः मध्यः अन्तश्च ज्ञातुं न शक्यते । तादृशम् एनम् अनिष्टफलजनकम् अश्वत्थवृक्षं वैराग्यशस्त्रेण विनाश्य सर्वेऽपि पुरुषाः तं महापुरुषं ध्यायन्तः तादृशं स्थानं शोधयेयुः यत् स्थानं प्राप्ताः पुनः न संसारं प्राप्नुवन्ति, यस्मादेव च अयमनादिः संसारः सम्पन्नो वर्तते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ततः_पदं_तत्परि...&oldid=447028" इत्यस्माद् प्रतिप्राप्तम्