आसुरीं योनिमापन्ना...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१६.२० आसुरीं योनिम् इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

आसुरीं योनिम् आपन्नाः मूढाः जन्मनि जन्मनि माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमां गतिम् ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! आसुरीं योनिम् आपन्नाः मूढाः माम् अप्राप्य एव ततः जन्मनि जन्मनि अधमां गतिं यान्ति ।

शब्दार्थः[सम्पादयतु]

आसुरीम् = राक्षसीम्
योनिम् = प्रकृतिम्
आपन्नाः = प्राप्ताः
मूढाः = अविवेकिनः
अप्राप्य = अनासाद्य
जन्मनि जन्मनि = प्रतिजन्म
अधमाम् = नीचाम्
यान्ति = गच्छन्ति ।

अर्थः[सम्पादयतु]

अर्जुन ! तादृशानां नरापसदानां राक्षसानां स्वभावं प्राप्तवतां न कदापि मम प्राप्तिः भवति । ते हि जन्मनि जन्मनि क्रमेण नीचामेव गतिं प्राप्नुवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आसुरीं_योनिमापन्ना...&oldid=418468" इत्यस्माद् प्रतिप्राप्तम्