एतां दृष्टिमवष्टभ्य...
दिखावट
(१६.९ एतां दृष्टिमवष्टभ्य इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
- प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]एतां दृष्टिम् अवष्टभ्य नष्टात्मानः अल्पबुद्धयः प्रभवन्ति उग्रकर्माणः क्षयाय जगतः हिताः ॥
अन्वयः
[सम्पादयतु]एतां दृष्टिम् अवष्टभ्य नष्टात्मानः अल्पबुद्धयः उग्रकर्माणः अहिताः जगतः क्षयाय प्रभवन्ति ।
शब्दार्थः
[सम्पादयतु]- अवष्टभ्य = अवलम्ब्य
- नष्टात्मानः = नष्टचित्ताः
- अल्पबुद्धयः = स्वल्पविवेकाः
- उग्रकर्माणः = क्रूरकार्याः
- अहिताः = शत्रवः
- जगतः = लोकस्य
- क्षयाय = विनाशाय
- प्रभवन्ति = कल्पन्ते ।
अर्थः
[सम्पादयतु]नष्टचित्ताः मन्दमतयश्च ते जनाः इमां दृष्टिम् अवलम्ब्य क्रूरे कार्ये आसक्ताः शत्रवः सन्तः जगतो नाशाय प्रवर्तन्ते ।