देवद्विजगुरुप्राज्ञ...
दिखावट
(१७.१४ देवद्विजगुरुप्राज्ञ इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
- ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् ब्रह्मचर्यम् अहिंसा च शारीरं तपः उच्यते ॥
अन्वयः
[सम्पादयतु]देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा च शारीरं तपः उच्यते ।
शब्दार्थः
[सम्पादयतु]- देवद्विजगुरुप्राज्ञपूजनम् = देवस्य द्विजस्य आचार्यस्य पण्डितस्य च सेवनम्
- शौचम् = शुद्धिः
- आर्जवम् = अवक्रता
- ब्रह्मचर्यम् = ब्रह्मव्रतम्
- अहिंसा = अपीडनम्
- शारीरम् = दैहिकम् ।
अर्थः
[सम्पादयतु]देवस्य द्विजस्य आचार्यस्य पण्डितस्य च अर्चनम्, शुद्धता, आर्जवम्, ब्रह्मचर्यम्, अहिंसा च शारीरं तपः इत्युच्यते ।