श्रद्धया परया तप्तं...
दिखावट
(१७.१७ श्रध्दया परया तप्तं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।
- अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य (१७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]श्रद्धया परया तप्तं तपः तत् त्रिविधं नरैः अफलाकाङ्क्षिभिः युक्तैः सात्त्विकं परिचक्षते ॥
अन्वयः
[सम्पादयतु]परया श्रद्धया तप्तं तत् तपः त्रिविधं भवति । अफलाकाङ्क्षिभिः युक्तैः नरैः तप्तं तपः सात्त्विकं परिचक्षते ।
शब्दार्थः
[सम्पादयतु]- अफलाकाङ्क्षिभिः = अकामैः
- युक्तैः = समाहितैः
- तप्तम् = आचरितम्
- त्रिविधम् = त्रिप्रकारम् ।
अर्थः
[सम्पादयतु]गाढश्रद्धया आचरितं तपः त्रिप्रकारं भवति । फलम् अनपेक्ष्य एकाग्रेण मनसा आचरितं तपः सात्त्विकं वदन्ति ।