ॐ तत्सदिति निर्देशो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.२३ ओं तत्सदिति इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥

अन्वयः[सम्पादयतु]

ॐ तत् सत् इति त्रिविधः निर्देशः ब्रह्मणः स्मृतः । तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः ।

शब्दार्थः[सम्पादयतु]

निर्देशः = उच्चारणम्
ब्रह्मणः = परब्रह्मणः
स्मृतः = प्रसिद्धः
पुरा = पूर्वम्
विहिताः = निर्मिताः ।

अर्थः[सम्पादयतु]

ॐ तत् सत् इति त्रिभिः शब्दैः ब्रह्मणः निर्देशः क्रियते । तेन च ब्रह्मणा ब्राह्मणाः वेदाः यज्ञाः च पूर्वं निर्मिताः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ॐ_तत्सदिति_निर्देशो...&oldid=418890" इत्यस्माद् प्रतिप्राप्तम्