सामग्री पर जाएँ

सद्भावे साधुभावे च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.२६ सद्भावे साधुभावे च इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः

[सम्पादयतु]
गीतोपदेशः
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

सद्भावे साधुभावे च सत् इति एतत् प्रयुज्यते प्रशस्ते कर्मणि तथा सत् शब्दः पार्थः युज्यते ॥

अन्वयः

[सम्पादयतु]

पार्थ ! सद्भावे साधुभावे च सत् इति एतत् प्रयुज्यते तथा प्रशस्ते कर्मणि सत् शब्दः युज्यते ।

शब्दार्थः

[सम्पादयतु]
सद्भावे = अस्तित्वे
साधुभावे = श्रेष्ठत्वे
प्रयुज्यते = उच्चार्यते
प्रशस्ते = श्लाघ्ये
युज्यते = कथ्यते

अस्ति इति, श्रेम् इति च अर्थे प्रतिपादनीये सत् इति शब्दः प्रयुज्यते पण्डितैः । तस्मात् प्रशस्ते विवाहादौ कर्मणि सत् इदं कर्म' इति सत्’शब्दस्य प्रयोगः सुतरां सच्छते ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सद्भावे_साधुभावे_च...&oldid=418850" इत्यस्माद् प्रतिप्राप्तम्