अश्रद्धया हुतं दत्तं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.२८ अश्रध्दया हुतम् इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च यत् असत् इति उच्यते पार्थ न च तत् प्रेत्य न इह ॥ २८ ॥

अन्वयः[सम्पादयतु]

पार्थ ! अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च यत् असत् इति उच्यते तत् प्रेत्य न इह नो ।

शब्दार्थः[सम्पादयतु]

अश्रद्धया = अनासक्त्या
हुतम् = हवनं कृतम्
दत्तम् = वितीर्णम्
तप्तम् = अनुतिम्
कृतम् = आचरितम्
प्रेत्य = परलोके
इह = एतल्लोके
नो = न भवति ।

अर्थः[सम्पादयतु]

अश्रद्धया यत् हुतं दत्तं तप्तं च भवति, यच्च अन्यत् कर्म आचरितं तत् सर्वम् असत् इत्युच्यते । न तत् इहलोके फलं ददाति, नापि परलोके । तस्मात् असत् इति व्यपदेशः अर्थवान् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]