सत्त्वानुरूपा सर्वस्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.३ सत्वानुरुपा सर्वस्य इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ ३ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयः अयं पुरुषः यः यत् श्रद्धः सः एव सः ॥

अन्वयः[सम्पादयतु]

भारत ! सर्वस्य सत्त्वानुरूपा श्रद्धा भवति । अयं पुरुषः श्रद्धामयः । यः यच्छ्रद्धः सः सः एव ।

शब्दार्थः[सम्पादयतु]

सत्त्वानुरूपा = अन्तःकरणानुगुणा
श्रद्धा = आसक्तिः
श्रद्धामयः = आसक्तिमयः
यच्छ्रद्धः = यादृशासक्ति
विशिष्टः सः = सः पुरुषः
सः तादृशासक्तिविशिष्टः ।

अर्थः[सम्पादयतु]

सर्वस्यापि अन्तःकरणानुगुणा श्रद्धा भवति । यस्मिन् श्रद्धा सः श्रद्धामयः इत्युच्यते । सा च श्रद्धा क्वचित् सत्त्वगुणप्रधाना, क्वचित् रजोगुणप्रधाना क्वचिच्च तमोगुणप्रधाना चेति त्रिविधा भवति । यः यादृश्या श्रद्धया विशिष्टः सः तादृशश्रद्धः इति निर्णयः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]