नियतस्य तु संन्यासः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.०७ नियतस्य तु संन्यासः इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

नियतस्य तु सन्न्यासः कर्मणः न उपपद्यते मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥

अन्वयः[सम्पादयतु]

नियतस्य कर्मणः तु सन्न्यासः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ।

शब्दार्थः[सम्पादयतु]

नियतस्य = नित्यस्य
संन्यासः = परित्यागः
न उपपद्यते = न युज्यते
मोहात् = अज्ञानात्
परिकीर्तितः = कथितः ।

अर्थः[सम्पादयतु]

काम्यं नित्यं चेति यत् द्विविधं कर्म वर्तते तत्र नित्यस्य कर्मणः त्यागः सर्वथा न युज्यते । यदि अज्ञानात् तस्य त्यागः क्रियते तर्हि सः त्यागः तमोगुणप्रयुक्तः इति निश्चीयते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नियतस्य_तु_संन्यासः...&oldid=418643" इत्यस्माद् प्रतिप्राप्तम्