शरीरवाङ्मनोभिर्यत्...
दिखावट
(१८.१५ शरीरवाङ्मनोभिर्यत्कर्म इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
- न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]शरीरवाङ्मनोभिः यत् कर्म प्रारभते नरः न्याय्यं वा विपरीतं वा पञ्च एते तस्य हेतवः ॥
अन्वयः
[सम्पादयतु]नरः शरीरवाङ्मनोभिः न्याय्यं वा विपरीतं वा यत् कर्म प्रारभते तस्य एते पञ्च हेतवः ।
शब्दार्थः
[सम्पादयतु]- शरीरवाङ्मनोभिः = कायवाक्चित्तैः
- न्याय्यम् = धर्म्यम्
- विपरीतम् = अधर्म्यम्
- प्रारभते = करोति
- हेतवः = कारणभूताः ।
अर्थः
[सम्पादयतु]सर्वकर्मसिद्धौ पञ्च कारणानि इत्युक्तम् । तैः जायमानानि कर्माणि प्रकारान्तरेण कायिकं वाचिकं मानसिकं चेति त्रेधा विभक्तुं शक्यम् । तच्च त्रिविधं कर्म धर्म्यम् अधर्म्यं वा भवितुमर्हति ।