ज्ञानं ज्ञेयं परिज्ञाता...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.१८ ज्ञानं ज्ञेयं परिज्ञाता इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म कर्ता इति त्रिविधः कर्मसङ्ग्रहः ॥

अन्वयः[सम्पादयतु]

ज्ञानं ज्ञेयं परिज्ञाता इति कर्मचोदना त्रिविधा । करणं कर्म कर्ता इति कर्मसङ्ग्रहः त्रिविधः ।

शब्दार्थः[सम्पादयतु]

ज्ञानम् = सर्वविषयज्ञानम्
ज्ञेयम् = ज्ञातव्यम्
परिज्ञाता = वेदिता
कर्मचोदना = कर्मप्रवर्तना
करणम् = साधनम्
कर्म = ईप्सिततमम्
कर्ता = आचरिता
कर्मसङ्ग्रहः = कर्मप्रकारः ।

अर्थः[सम्पादयतु]

ज्ञानं ज्ञेयं ज्ञाता चेति कर्मप्रवर्तकं त्रिविधम् । तत्र करणं स्रुगादि । कर्म ज्योतिोमादि । कर्ता च तन्निर्वर्तकः पुरुषः इति विवेकः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]