ज्ञानं कर्म च कर्ता च...
दिखावट
(१८.१९ ज्ञानं कर्म च कर्ता इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
- प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १९ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ज्ञानं कर्म च कर्ता च त्रिधा एव गुणभेदतः प्रोच्यते गुणसङ्ख्याने यथावत् शृणु तानि अपि ॥ १९ ॥
अन्वयः
[सम्पादयतु]ज्ञानं कर्म च कर्ता च गुणभेदतः त्रिधा एव गुणसङ्ख्याने प्रोच्यते । तानि अपि यथावत् शृणु ।
शब्दार्थः
[सम्पादयतु]- गुणभेदतः = सत्त्वादिगुणभेदात्
- त्रिधा = प्रकारत्रयेण
- गुणसङ्ख्याने = साङ्ख्यशास्त्रे
- यथावत् = यथातथम्
- प्रोच्यते = कथ्यते ।
अर्थः
[सम्पादयतु]ज्ञानं कर्म कर्ता च सत्त्वादिगुणभेदात् त्रिप्रकारः इति साङ्ख्यशास्त्रे प्रतिपादितम् । तदेव यथावत् निरूपयामि, शृणु ।