यत्तु कामेप्सुना कर्म...
दिखावट
(१८.२४ यत्तु कामेप्सुना कर्म इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
- क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासं तत् राजसम् उदाहृतम् ॥
अन्वयः
[सम्पादयतु]कामेप्सुना साहंकारेण वा पुनः बहुलायासं तु यत् कर्म क्रियते तत् राजसम् उदाहृतम् ।
शब्दार्थः
[सम्पादयतु]- कामेप्सुना = फलाभिलाषयुक्तेन
- साहारेण वा = अहारसहितेन वा
- बुहुलायासम् = अधिकायासम् ।
अर्थः
[सम्पादयतु]फलापेक्षया अहारेण च यत् श्रमसाध्यं कर्म क्रियते तत् राजसम् इत्युच्यते ।