मुक्तसङ्गोऽनहंवादी...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.२६ मुक्तसङ्गोऽनहंवादी इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निविकारः कर्ता सात्त्विक उच्यते ॥ २६ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मुक्तसङ्गः अनहंवादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्ध्योः निविकारः कर्ता सात्त्विकः उच्यते ॥

अन्वयः[सम्पादयतु]

मुक्तसङ्गः धृत्युत्साहसमन्वितः अनहंवादी सिद्ध्यसिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ।

शब्दार्थः[सम्पादयतु]

मुक्तसङ्गः = फलाभिलाषरहितः
धृत्युत्साहसमन्वितः = धैर्यौत्सुक्यसहितः
अनहंवादी = अहारशून्यः
सिद्ध्यसिद्ध्योः = लाभालाभयोः
निर्विकारः = विकारशून्यः
कर्ता = आचरिता
सात्त्विकः = सत्त्ववान्
उच्यते = कथ्यते ।

अर्थः[सम्पादयतु]

यः तावत् फलापेक्षाम् अकुर्वन्, अहं करोमि इति अवदन्, धैर्येण औत्सुक्येन युक्तः, कर्मणि सिद्धे असिद्धे च समानचित्तः सन् कर्म करोति सः सात्त्विकः इति उच्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुक्तसङ्गोऽनहंवादी...&oldid=418727" इत्यस्माद् प्रतिप्राप्तम्