जितात्मनः प्रशान्तस्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(६.७ जितात्मानः प्रशां... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

जितात्मनः प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥

अन्वयः[सम्पादयतु]

शीतोष्णसुखदुःखेषु तथा मानापमानयोः प्रशान्तस्य जितात्मनः परमात्मा समाहितः ।

शब्दार्थः[सम्पादयतु]

शीतोष्णसुखदुःखेषु = शीते उष्णे सुखे दुःखे च सति
द्स्तथा = एवम्
मानापमानयोः = सम्मानापमानयोः सतोः
प्रशान्तस्य = रागद्वेषशून्यस्य
जितात्मनः = वशीकृतचित्तस्य
परमात्मा = परमात्मा
समाहितः = समाधेः विषयो भवति ।

अर्थः[सम्पादयतु]

यः जितमनस्कः भवति, रागद्वेषशून्यश्च भवति तस्य परमात्मा समाधेःविषयो भवति । सः शीतोष्णयोः सुखदुःखयोः, मानापमानयोश्च समानः भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

जितात्मन इति। जितात्मनः कार्यकरणादिसंघात आत्मा जितो येन स जितात्मा तस्य जितात्मनः प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः संन्यासिनः परमात्मा समाहितः । साक्षादात्मभावेनवर्तत इत्यर्थः । किंच शीतोष्णसुखदुःखेषु तथा मानेऽपमाने च मानापमानयोः पूजापरिभवयोः ।।7।।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]