बलं बलवतां चाहं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(७.११ बलं बलवतां... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

बलं बलवतां च अहं कामरागविवर्जितम् धर्माविरुद्धः भूतेषु कामः अस्मि भरतर्षभ ॥ ११ ॥

अन्वयः[सम्पादयतु]

भरतर्षभ, अहं बलवतां कामरागविवर्जितं बलं भूतेषु धर्माविरुद्धः कामः च अस्मि ।

शब्दार्थः[सम्पादयतु]

भरतर्षभ = भरतश्रे !
अहं बलवताम् = अहम् ओजस्विनाम्
कामरागविवर्जितम् = वस्तुनि अभिलाषः तदाधिक्ये च अभिलाषः ताभ्यां रहितम्
बलम् = सामर्थ्यम्
भूतेषु = प्राणिषु
धर्माविरुद्धः = धर्मानुकूलः
कामः च = इच्छा च
अस्मि = भवामि ।

अर्थः[सम्पादयतु]

भरतश्रे ! अहम् ओजस्विनां तृष्णारागरहितं सामर्थ्यम् अस्मि । प्राणिषु धर्माविरुद्धा इच्छा अस्मि ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बलं_बलवतां_चाहं...&oldid=418680" इत्यस्माद् प्रतिप्राप्तम्