तेषां ज्ञानी नित्ययुक्त...
(७.१७ तेषां ज्ञानी नित्यं... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः[सम्पादयतु]

- तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
- प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तदशः(१७) श्लोकः ।
पदच्छेदः[सम्पादयतु]
तेषां ज्ञानी नित्ययुक्तः एकभक्तिः विशिष्यते प्रियः हि ज्ञानिनः अत्यर्थम् अहं स च मम प्रियः ॥ १७ ॥
अन्वयः[सम्पादयतु]
तेषां नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । अहं हि ज्ञानिनः अत्यर्थं प्रियः । सः च मम प्रियः ।
शब्दार्थः[सम्पादयतु]
- तेषाम् = तेषु
- नित्ययुक्तः = सततयोगी
- एकभक्तिः = अनन्यभक्तिः
- ज्ञानी = ज्ञानवान्
- विशिष्यते = अतिरिच्यते
- अहं हि = अहम्
- ज्ञानिनः = ज्ञानवतः
- अत्यर्थम् = अतिशयेन
- प्रियः = अभीष्टः
- सः च = सः अपि
- मम = मे
- प्रियः = अभीष्टः ।
अर्थः[सम्पादयतु]
तेषां सततयोगी अनन्यभक्तिः ज्ञानी विशिष्यते । अहं ज्ञानवतः अतीव प्रियः । सोऽपि मम अतीवप्रियः ।