मय्यासक्तमनाः पार्थ...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(७.१ मय्यासक्तमनाः ... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्री भगवानुवाच -

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मयि आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तत् श्रुणु ॥ १ ॥

अन्वयः[सम्पादयतु]

पार्थ ! मयि आसक्तमनाः योगं युञ्जन् मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तत् शृणु ।

शब्दार्थः[सम्पादयतु]

पार्थ = अर्जुन !
मयि = परमेश्वरे
आसक्तमनाः = लग्नचित्तः
योगम् = समाधिम्
युञ्जन् = अभ्यस्यन्
मदाश्रयः = मामेव अवलम्बमानः
असंशयम् = निस्सन्देहम्
समग्रम् = निरवशेषम्
माम् = माम्
यथा = येन प्रकारेण
ज्ञास्यसि = बोधिष्यसि
(तथा) तत् = तेन प्रकारेण एतत्
शृणु = आकर्णय ।

अर्थः[सम्पादयतु]

पार्थ ! मयि एव मनः निवेश्य मामेव आश्रयन् समाधिं च कुर्वन् तत्सर्वं निस्संशयं ज्ञातुम् अर्हसि यदहं कथयामि ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मय्यासक्तमनाः_पार्थ...&oldid=418715" इत्यस्माद् प्रतिप्राप्तम्