मनुष्याणां सहस्रेषु...
(७.३ मनुष्याणां सहस्रेषु... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः[सम्पादयतु]

- मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
- यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः[सम्पादयतु]
मनुष्याणां सहस्रेषु कश्चित् यतति सिद्धये यततामपि सिद्धानां कश्चित् मां वेत्ति तत्त्वतः ॥ ३ ॥
अन्वयः[सम्पादयतु]
मनुष्याणां सहस्रेषु कश्चित् सिद्धये यतति । यततामपि सिद्धानां कश्चित् मां तत्त्वतः वेत्ति ।
शब्दार्थः[सम्पादयतु]
- मनुष्याणाम् = मानवानाम्
- सहस्रेषु = सहस्रेषु
- कश्चित् = कोऽपि
- सिद्धये = सिद्ध्यर्थम्
- यतति = प्रयत्नं करोति
- यतताम् अपि = प्रयत्नं कुर्वताम् अपि
- सिद्धानाम् = ज्ञानिनाम्
- कश्चित् = कोऽपि
- माम् = माम्
- तत्त्वतः = यथावत्
- वेत्ति = जानाति ।
अर्थः[सम्पादयतु]
वस्तुतः अहं दुर्ज्ञेयः अस्मि । बहुषु मानवेषु कोऽपि सिद्ध्यर्थं प्रयत्नं करोति । तेन प्रयत्नेन च ये सिद्धिं प्राप्नुवन्ति तेषु अपि कश्चिदेव मां यथावत् ज्ञातुं शक्नोति ।