पुरुषः स परः पार्थ...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.२२ पुरुषः स परः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य द्वाविंशतितमः (२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया यस्य अन्तस्थानि भूतानि येन सर्वम् इदं ततम् ॥ २२ ॥

अन्वयः[सम्पादयतु]

पार्थ ! भूतानि यस्य अन्तःस्थानि, येन इदं सर्वं ततम्, सः तु परः पुरुषः अनन्यया भक्त्या लभ्यः ।

शब्दार्थः[सम्पादयतु]

पार्थ = अर्जुन !
भूतानि = भूतसमुदायः
यस्य अन्तःस्थानि = यस्य अन्तः वर्तते
येन = येन
इदं सर्वम् = इदं कृत्स्नम्
ततम् = व्याप्तम्
सः तु = प्रसिद्धः
परः पुरुषः = उत्तमः परमात्मा
अनन्यया भक्त्या = एकान्तभक्त्या
लभ्यः = प्राप्यः ।

अर्थः[सम्पादयतु]

अर्जुन ! सर्वाणि भूतानि यस्मिन् अन्तर्गतानि सन्ति, येन च सर्वमिदं व्याप्तं वर्तते तादृशं तत् ब्रह्म केवलम् एकान्तभक्त्या एव लभ्यम् । ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पुरुषः_स_परः_पार्थ...&oldid=418664" इत्यस्माद् प्रतिप्राप्तम्