अधिभूतं क्षरो भावः...
दिखावट
(८.४ अधिभूतं क्षरोभावः.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
- अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अधिभूतं क्षरः भावः पुरुषः च अधिदैवतम् अधियज्ञः अहम् एव अत्र देहे देहभृतां वर ॥ ४ ॥
अन्वयः
[सम्पादयतु]क्षरः भावः अधिभूतम्, पुरुषः च अधिदैवतम् । देहभृतां वर ! अत्र देहे अहम् एव अधियज्ञः ।
शब्दार्थः
[सम्पादयतु]- क्षरः = विनाशशीलः
- भावः = पदार्थः
- अधिभूतम् = अधिभूतम् इति व्यवह्रियते
- पुरुषः च =हिरण्यगर्भः च
- अधिदैवतम् = अधिदैवतम् इति कथ्यते
- देहभृतां वर = शरीरिणां श्रे ! (अर्जुन)
- अत्र = अस्मिन्
- देहे = शरीरे
- अहम् एव = अहं केवलम्
- अधियज्ञः = अधियज्ञः ।
अर्थः
[सम्पादयतु]विनाशशीलः वस्तुसमुदायः अधिभूतम् इति उच्यते । सर्वप्राणीन्द्रियाणाम् अनुग्राहकः हिरण्यगर्भः च अधिदैवतम् इति कथ्यते । अर्जुन ! अत्र शरीरे अहमेव अधियज्ञः इति ज्ञातव्यम् ।