यं यं वापि स्मरन्भावं...
दिखावट
(८.६ यं यं वापि स्मरन्.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
- तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षष्ठः(६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यं यं वा अपि स्मरन् भावं त्यजति अन्ते कलेवरम् तं तम् एव एति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! अन्ते यं यं वा अपि भावं स्मरन् कलेवरं त्यजति (सः) सदा तद्भावभावितः तं तम् एव एति ।
शब्दार्थः
[सम्पादयतु]- कौन्तेय = कुन्तीपुत्र
- यं यं वा अपि = यादृशम्
- भावम् = देवताविशेषम्
- स्मरन् = चिन्तयन्
- अन्ते = अन्तकाले
- कलेवरम् = देहम्
- त्यजति = मुञ्चति
- (सः) सदा = सततम्
- तावभावितः = तदनुसन्धान - संस्कृतचित्तः सन्
- तं तम् एव = तादृशं देवताविशेषमेव
- एति = प्राप्नोति ।
अर्थः
[सम्पादयतु]कौन्तेय ! जीवः स्वस्य अन्तकाले यादृशं भावं चिन्तयन् शरीरं त्यजति यस्यानुसन्धानं तेन पुनः पुनः कृतम्, सः तस्य भावं प्राप्नोति ।