कविं पुराणमनुशासितारम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.९ कविं पुराणमनुशां.... इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


श्लोकः[सम्पादयतु]

गीतोपदेशः
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कविं पुराणम् अनुशासितारम् अणोरणीयाम् अनुस्मरेत् यः सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥ ९ ॥

अन्वयः[सम्पादयतु]

यः कविं पुराणम् अनुशासितारम् अणोः अणीयांसं सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् अनुस्मरेत् ।

शब्दार्थः[सम्पादयतु]

कविम् = सर्वज्ञम्
पुराणम् = पुरातनम्
अनुशासितारम् = जगन्नियामकम्
अणोः = सूक्ष्मात् अपि
अणीयांसम् = सूक्ष्मतरम्
सर्वस्य = सकलस्य
धातारम् = पोषकम्
अचिन्त्यरूपम् = दुर्ज्ञेयरूपम्
आदित्यवर्णम्= सूर्यसमानवर्णम्
तमसः = अज्ञानान्धकारात्
परस्तात् = परतः विद्यमानम्
यः अनुस्मरेत्= यः ध्यायेत् ....

अर्थः[सम्पादयतु]

यः सर्वज्ञं पुरातनं जगन्नियन्तारं सूक्ष्मात् सूक्ष्मतरं सकलस्य धातारम् अगम्यस्वरूपं सूर्यसमप्रभम् अज्ञानान्धकारात् परतः विद्यमानं ध्यायति । (सः दिव्यं पुरुषं याति ।)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]