त्रैविद्या मां सोमपाः...
दिखावट
(९.२० त्रैविद्या मां .... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
- ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]त्रैविद्या मां सोमपाः पूतपापाः यज्ञैः इष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ २० ॥
अन्वयः
[सम्पादयतु]त्रैविद्याः सोमपाः पूतपापाः मां यज्ञैः इष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यं सुरेन्द्रलोकम् आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति ।
शब्दार्थः
[सम्पादयतु]- त्रैविद्याः = वेदत्रयविदः
- सोमपाः = सोमपायिनः
- पूतपापाः = अपगतकिल्बिषाः
- यज्ञैः = क्रतुभिः
- माम् इष्ट्वा = मां पूजयित्वा
- स्वर्गतिम् = स्वर्गगमनम्
- प्रार्थयन्ते = याचन्ते
- ते = ते जनाः
- पुण्यम् =पवित्रम्
- सुरेन्द्रलोकम् = इन्द्रलोकम्
- आसाद्य = प्राप्य
- दिवि = स्वर्गे
- दिव्यान् = स्वर्गस्थितान्
- देवभोगान् = सुरभोगान्
- अश्नन्ति = अनुभवन्ति ।
अर्थः
[सम्पादयतु]वेदत्रयविदः केचित् सोमयागेन इन्द्रादीन् सन्तोष्य यागशेषं सोमं च पीत्वा स्वर्गं प्राप्नुवन्ति । तत्र कञ्चित् कालं वसन्तः दिव्यान् भोगान् अनुभवन्ति ।