मन्मना भव मद्भक्तो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.३४ मन्मना भव.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुस्त्रिंशत्तमः(३४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मन्मना भव मद्भक्तः मद्याजी मां नमस्कुरु माम् एव एष्यसि युक्ता एवम् अत्मानं मत्परायणः ॥ ३४ ॥

अन्वयः[सम्पादयतु]

मन्मनाः मद्याजी मद्भक्तः भव । मां नमस्कुरु । एवम् आत्मानं युक्त्वा मत्परायणः माम् एव एष्यसि ।

शब्दार्थः[सम्पादयतु]

मन्मनाः = मच्चित्तः
मक्तः = मदनुरक्तः
मद्याजी = मत्पूजकः
भव = वर्तस्व
मां नमस्कुरु = मां प्रणम
एवम् = इत्थम्
मत्परायणः = मदासक्तः
आत्मानम् = स्वम्
युक्त्वा = समाधाय
माम् एव = माम् एव
एष्यसि = अधिगमिष्यसि ।

अर्थः[सम्पादयतु]

तस्मात् मय्येव मनो निवेश्य, मक्तश्च भूत्वा मामेव पूजय येन मदेकमनस्को भवान् समाहितः सन् अन्ते मामेव प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मन्मना_भव_मद्भक्तो...&oldid=418706" इत्यस्माद् प्रतिप्राप्तम्