कृष्णस्वामी कस्तूरिरङ्गन्
डॉ. कृष्णस्वामी कस्तूरिरङ्गन् कश्चन अन्तरिक्षवैज्ञानिकः । सः कर्नाटकस्य बेंगलुरुनगरे वसति । सः भारतीय-अंतरिक्ष- अनुसंधान-संघटनस्य (ISRO) नेतृत्वं नव वर्षाणि २००३ पर्यन्तं निरूढवान्। सः भारतीयसंसदः उच्चसदनस्य सदस्यः आसीत् ( राज्यसभा, २००३-२००९)। सः सम्प्रति भारतसर्वकारस्य योजनायोगस्य सदस्यः अस्ति [१] [२] । सः २००४ तमस्य वर्षस्य एप्रिलमासात् बेङ्गलूरुनगरे राष्ट्रिय उन्नतशिक्षासंस्थान सदस्यः अपि अस्ति । सह् भारत सर्वकारेण दीयमानानि त्रीणि नागरिकपुरस्काराणि अपि प्राप्तवान् अस्ति - पद्मश्री (१९८२), पद्मभूषण (१९९२) एवं पद्मविभूषण (२०००)।
प्रमुख-योगदानानि
[सम्पादयतु]डॉ. कस्तूरीरङ्गः २००३ तमे वर्षे अगस्ट्मासस्य २७ दिनाङ्के स्वस्य कार्यकालस्य समाप्तेः पूर्वं ९ वर्षाणाम् अपेक्षया अधिककालपर्यन्तं इसरो-सङ्घस्य अध्यक्षः, अन्तरिक्ष-आयोगस्य, अन्तरिक्ष-विभागे भारत-सर्वकारस्य सचिवत्वेन भारतीय-अन्तरिक्ष-कार्यक्रमस्य निर्देशनस्य उत्तरदायी च आसीत् । पूर्वं सः इसरो-उपग्रहकेन्द्रस्य निदेशकः आसीत् । आधुनिकयुगस्य अन्तरिक्षयानम्, भारतीयराष्ट्रीयोपग्रहः (INSAT-2) भारतीयदूरसंवेदनोपग्रहाः (IRS-1A तथा 1B) इत्यादीनां वैज्ञानिकोपग्रहानां विकासस्य निरीक्षणं कृतवान् । सः भारतस्य प्रथमयोः प्रयोगात्मकयोः पृथिवीनिरीक्षण-उपग्रहयोः भास्कर-प्रथम-द्वितीययोः परियोजना-निदेशकः आसीत् ।
तस्य नेतृत्वे भारतस्य प्रसिद्धानां प्रक्षेपणवाहनानां पोलार-उपग्रह-प्रक्षेपणवाहनस्य, जियोसिंक्रोनस उपग्रहप्रक्षेपणवाहनस्य च प्रक्षेपणे कार्यनिर्वहणे च महत्त्वपूर्णाः उपलब्धयः प्राप्ताः सन्ति। GSLV, GSLVMK-III इत्यस्य उन्नतसंस्करणस्य तस्य सम्पूर्णविन्यासपरिभाषासु च अध्ययनं सम्पन्नम् । तदतिरिक्तं सः विश्वस्य प्रमुखानां नागरिकदूरसंवेदनोपग्रहाणां IRS-1C तथा 1D इत्येतयोः विकासस्य प्रक्षेपणस्य च निरीक्षणं कृतवान्, तथैव नवीनयुगस्य INSAT संचारोपग्रहाणां समुद्रनिरीक्षणोपग्रहाणां IRS-P3/P4 इत्यस्य च प्रक्षेपणस्य निरीक्षणं च कृतवान् । चन्द्रायण-प्रथमस्य व्याख्यां कृत्वा विस्तृताध्ययनद्वारा भारतस्य ग्रहान्वेषणयुगे प्रवेशं कर्तुं सः महत्त्वपूर्णं पात्रम् आवहत् । एतेषां प्रयत्नानाम् कारणेन भारतदेशः उन्नतान्तरिक्षसाधकराषृरत्वेन, प्रमुखान्तरिक्ष-कार्यक्रमयुक्तराष्ट्रत्वेन च षट्सु देशेषु अन्यतमत्वेन परिगणितं जातम् । खभौतशास्त्रज्ञत्वेन डॉ. कस्तूरीरङ्गः उच्च- ऊर्जायुक्तयोः एक्स-रे-गामा-किरणयोः, विषये प्रकाशिकखगोलशास्त्रे च शोधकार्यम् अकरोत् । भारतस्य महत्त्वाकांक्षिण्याः अन्तरिक्षाधारित-उच्चक्षमतायुक्त-खगोलशास्त्रवेधशालायाः सम्बद्धानि कार्याणि अपि तस्य नेतृत्वे प्राप्ताः प्रमुखाः उपलब्धयः आसन् । ब्रह्माण्डीय-एक्स-किरणानां गामा-किरणानां च स्रोतसाम् अध्ययनं, निम्नस्तरीये वातावरणे ब्रह्माण्डीय-एक्स-किरणानां प्रभावः इत्येतस्मिन् विषये अध्ययने तदीयं योगदानं महत्वपूर्णं वर्तते ।
- ↑ <https://www.isro.gov.in/about-isro/dr-krishnaswamy-kasturirangan-1994-2003 Archived २०१८-१०-२० at the Wayback Machine>
- ↑ "Planning Commission Organisation". Shivap. आह्रियत 2009-12-03.