एवं सततयुक्ता ये...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(12.1 एवं सततयुक्रा ये…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

एवं सततयुक्ताः ये भक्ताः त्वां पर्युपासते ये च अपि अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥

अन्वयः[सम्पादयतु]

ये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते, ये च अपि अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ?

शब्दार्थः[सम्पादयतु]

ये भक्ताः = ये आराधकाः
एवम् = सर्वकर्मार्पणादिना
सततयुक्ताः = नित्यसमाहिताः
त्वां पर्युपासते = त्वां सेवन्ते
ये च अपि = ये अपि पुनः
अक्षरम् = अविनाशि
अव्यक्तम् = अतीन्द्रियम्
तेषाम् = तेषु उभयेषु
के = के
योगवित्तमाः = अतिशयेन योगविदः ।

अर्थः[सम्पादयतु]

ये भक्ताः सर्वाणि कार्याणि समर्प्य नित्यसमाहिताः विश्वरूपं सर्वज्ञं त्वां सेवन्ते, ये पुनः अविनाशि अतीन्द्रियं निर्विशेषं तत्त्वं पर्युपासते तेषु उभयेषु के भक्ताः अतिशयेन योगविदः ?

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एवं_सततयुक्ता_ये...&oldid=418505" इत्यस्माद् प्रतिप्राप्तम्