अध्यात्मज्ञाननित्यत्वं...
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
- एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतत् ज्ञानम् इति प्रोक्तम् अज्ञानं यत् अतः अन्यथा ॥ ११ ॥
अन्वयः
[सम्पादयतु]अमानित्वम् , अदम्भित्वम् , अहिंसा , क्षान्तिः , आर्जवम् , आचार्योपासनम् , शौचम् , स्थैर्यम् , आत्मविनिग्रहः , इन्द्रियार्थेषु वैराग्यम् , अनहङ्कारः एव च , जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् , असक्तिः , पुत्रदारगृहादिषु अनभिष्वङ्गः , इष्टानिष्टोपपत्तिषु नित्यं समचित्तत्वं च , मयि च अनन्ययोगेन अव्यभिचारिणी भक्तिः च , विविक्तदेशसेवित्वम् , जनसंसदि अरतिः , अध्यात्मज्ञाननित्यत्वम् , तत्त्वज्ञानार्थदर्शनम् एतत् ज्ञानम् इति प्रोक्तम् । अतः अन्यथा यत् तत् अज्ञानम् ।
शब्दार्थः
[सम्पादयतु]- अमानित्वम् = आत्मश्लाघाराहित्यम्
- अदम्भित्वम् = दम्भाभावः
- अहिंसा = अपीडनम्
- क्षान्तिः = सहनम्
- आर्जवम् = अवक्रत्वम्
- आचार्योपासनम् = गुरुसेवा ।
- इन्द्रियार्थेषु = इन्द्रियविषयेषु
- वैराग्यम् = अप्रीतिः
- अनहङ्कारः = अभिमानशून्यत्वम्
- असक्तिः = अनासक्तिः
- जन्ममृत्युजराव्याधिदोषानुदर्शनम् = जननमरणवृद्धत्वरोगदुःखेषु दोषावलोकनम् ।
- पुत्रदारगृहादिषु = तनयभार्यानिवासादिषु
- अनभिष्वङ्गः = अनभिनिवेशः
- इष्टानिष्टोपपत्तिषु = अभीष्ट - द्विष्टवस्तुप्राप्तिषु
- नित्यम् = सदा
- समचित्तत्वम् = समानमनस्कत्वम् ।
- मयि = परमात्मनि
- अनन्ययोगेन = एकाग्रचित्तेन
- अव्यभिचारिणी = अनपायिनी
- जनसंसदि = जनसमवाये
- विविक्तदेशसेवित्वम् = एकान्तदेशसेवनम्
- अरतिः = अप्रीतिः ।
- अध्यात्मज्ञाननित्यत्वम् = सर्वदा आत्मविषयकं चिन्तनम्
- ज्ञानम् = ज्ञानसाधनम्
- तत्त्वज्ञानार्थदर्शनम् = सत्यज्ञानफलविचारणम्
- प्रोक्तम् = कथितम्
- अन्यथा = विपर्ययेण ।
अर्थः
[सम्पादयतु]आत्मश्लाघाराहित्यम्, दम्भाभावः, अपीडनम्, क्षमा, अवक्रत्वम्, गुरुशुश्रूषा, शुद्धिः, धृतिः,शरीरेन्द्रियनिग्रहः, इन्द्रियविषयेषु अप्रीतिः, अहारशून्यत्वम्, जननमरणजरारोगदु:खेषु दोषावलोकनम्, अनासक्तिः, तनयभार्यानिवासादिषु अनभिनिवेशः, अभीष्टानिष्टवस्तुप्राप्तिषु सदा समानमनस्कत्वम् , परमात्मनि एकाग्रचित्तेन अनपायिनी भक्तिः, एकान्तप्रदेशसेवा, जनसमवाये अप्रीतिः, सर्वदा आत्मविषयस्य अनुसन्धानम्, तत्त्वज्ञानफलस्य मोक्षस्य प्राप्यत्वेन विचारणम् - एतत् ज्ञानसाधनम् इति कथितम् । अस्मात् अन्यत् यदस्ति तद् ज्ञानसाधनं न इति प्रोक्तम् ।
श्लोकविशेषः
[सम्पादयतु]ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा अत्र दत्तं वर्तते । परस्परश्लोकानाम् अन्वयः वर्तते ।