अनादित्वान्निर्गुणत्वात्...
दिखावट
(13.31 अनादित्वात् . इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
- शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः शरीरस्थः अपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! अयम् अव्ययः परमात्मा शरीरस्थः अपि अनादित्वात् निर्गुणत्वात् न करोति न लिप्यते ।
शब्दार्थः
[सम्पादयतु]- अव्ययः = नाशरहितः
- अनादित्वात् = अमूलत्वात्
- निर्गुणत्वात् = गुणराहित्यात्
- शरीरस्थः = क्षेत्रस्थः
- न करोति = न आचरति
- न लिप्यते = लिप्तो न भवति ।
अर्थः
[सम्पादयतु]अर्जुन ! एषः अविनाशी परमात्मा शरीरे वर्तमानः प्रकृतिसम्बन्धात् कर्म कुर्वन्निव भाति,कर्मफलानि च अनुभवन्निव । किन्तु अयम् अनादिः निर्गणश्च इति हेतोः न तस्मिन् कर्मकर्तृत्वं सम्भवति, नापि कर्मफलभोक्तृत्वम् । तत् केवलम् अस्य सन्निधानात् प्रकृतौ एव ।