तत्क्षेत्रं यच्च यादृक्च...
दिखावट
(13.3 तत्क्षेत्रं यच्च यादृक्.. . इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
- स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तत् क्षेत्रं यत् च यादृक् च यद्विकारि यतः च यत् स च यः यत् प्रभावः च तत् समासेन मे शृणु ॥ ३ ॥
अन्वयः
[सम्पादयतु]तत् क्षेत्रं यत् च यादृक् च यद्विकारि यतः च । सः च यः यत्प्रभावः च तत् समासेन मे शृणु ।
शब्दार्थः
[सम्पादयतु]- तत् क्षेत्रम् = तत् शरीरम्
- यत् = यत्स्वरूपम्
- यादृक् च = यद्धर्मविशिष्टं च
- यद्विकारि = यैः विकारैः युक्तम्
- यतश्च = यादृशात् हेतोः जायते
- सः च = सः क्षेत्रज्ञः
- यः = यत्स्वरूपः
- यत्प्रभावः = यादृश - प्रभावविशिष्टः ।
अर्थः
[सम्पादयतु]क्षेत्रस्य किं स्वरूपम् ? कीदृशाश्च धर्माः तत्र सन्ति ? विकारकारणीभूताः अंशाः के ? कस्मात् इदं जायते तथा अस्य क्षेत्रज्ञस्य किं स्वरूपम् ? कीदृशाश्च धर्माः तस्मिन् सन्ति ? तदिदं सर्वमपि संक्षेपेण कथयामि, शृणु ।