परं भूयः प्रवक्ष्यामि...
दिखावट
(14.1 परं भूयः प्रवक्ष्यां….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवानुवाच-
- परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
- यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् यत् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतः गताः ॥ १ ॥
अन्वयः
[सम्पादयतु]भूयः परं ज्ञानानाम् उत्तमं ज्ञानं प्रवक्ष्यामि । सर्वे मुनयः यत् ज्ञात्वा इतः परां सिद्धिं गताः ।
शब्दार्थः
[सम्पादयतु]- परम् = अन्यत्
- ज्ञानानाम् = ज्ञानेषु
- उत्तमम् = प्रकृष्टम्
- प्रवक्ष्यामि = कथयामि
- इतः = अस्मात् संसारात्
- परां सिद्धिम् = मोक्षम्
- गताः = प्राप्तवन्तः ।
अर्थः
[सम्पादयतु]अन्यदपि पुनः ज्ञानेषु उत्तमं ज्ञानं ते कथयामि, यत् ज्ञात्वा मुनयः अस्मात् संसारात् मोक्षं प्राप्तवन्तः ।