कैर्लिङ्गैस्त्रीन्गुणानेतान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(14.21 कैर्लि ङ्गैस्त्रीन्….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो किम् आचारः कथं च एतान् त्रीन् गुणान् अतिवर्तते ॥ २१ ॥

अन्वयः[सम्पादयतु]

प्रभो ! कैः लिङ्गैः एतान् त्रीन् गुणान् अतीतः भवति । किमाचारः कथं च एतान् त्रीन् गुणान् अतिवर्तते ।

शब्दार्थः[सम्पादयतु]

लिङ्गैः = निमित्तैः

अतीतः = अतिक्रान्तः
किमाचारः = कीदृशाचारः
अतिवर्तते = अतिक्राम्यति।

अर्थः[सम्पादयतु]

कृष्ण ! पुरुषः कश्चित् एतान् त्रीन् गुणान् अतीतः इति कथं ज्ञायते ? यदि चिह्नैः इत्युच्यते तर्हि तानि चिह्नानि कानि ? तस्य पुरुषस्य आचारोऽपि कीदृशः वर्तेत ? सर्वमिदम् उच्यताम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]