मानापमानयोस्तुल्यः...
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
- सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मानापमानयोः तुल्यः तुल्यः मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातीतः सः उच्यते ॥ २५ ॥
अन्वयः
[सम्पादयतु]पाण्डव ! प्रकाशं च प्रवृत्तिं च मोहम् एव च सम्प्रवृत्तानि न द्वेष्टि, निवृत्तानि न काङ्क्षति । यः उदासीनवत् आसीनः गुणैः न विचाल्यते, यः गुणाः वर्तन्ते इति एव अवतिष्ठते न इङ्गते । समदुःखसुखः, स्वस्थः, समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः, धीरः, तुल्यनिन्दात्मसंस्तुतिः, मानापमानयोः तुल्यः, मित्रारिपक्षयोः तुल्यः, सर्वारम्भपरित्यागी सः गुणातीतः उच्यते ।
शब्दार्थः
[सम्पादयतु]- प्रकाशम् = सत्त्वकार्यम्
- प्रवृत्तिम् = रजःकार्यम्
- मोहम् = तमःकार्यम्
- सम्प्रवृत्तानि = सम्प्राप्तानि
- निवृत्तानि = अतीतानि
- उदासीनवत् = तटस्थवत्
- आसीनः = स्थितः सन्
- विचाल्यते = प्रच्याव्यते
- अवतिष्ठते = तिष्ठति
- इङ्गते = चरति
- समदुःखसुखः = क्लेशानन्दयोः समानः
- स्वस्थः = प्रसन्नः
- समलोष्टाश्मकाञ्चनः = मृत्पाषाणसुवर्णेषुः समानः
- तुल्यनिन्दात्मसंस्तुतिः = दूषणप्रशंसयोः समानः
- मानापमानयोः = मानपराभवयोः
- मित्रारिपक्षयोः = सुहृत्शत्रुपक्षयोः
- सर्वारम्भपरित्यागी = सर्वकर्मसन्न्यासी ।
अर्थः
[सम्पादयतु]अर्जुन ! सत्त्वादीनां त्रयाणां यानि कार्याणि सुखप्रवृत्तिमोहादीनि तेषु प्राप्तेषु सत्सु यः प्रातिकूल्य - बुद्ध्या न द्वेषं याति, निवृत्तेषु आनुकूल्यबुद्ध्या पुनः न आकाङ्क्षां करोति, यः उदासीनवत् तिष्ठन् गुणकार्यैः सुखदुःखमोहैः विचालयितुं न शक्यते, यः गुणाः स्वकार्येषु एव वर्तन्ते न तैः मम कोऽपि सम्बन्धः इति न प्रतिकर्तुम् इच्छति, यः सुखदुःखयोः मृत्पिण्डपाषणसुवर्णेषु हिताहितयोः श्लाघनप्रशंसयोः मानापमानयोः मित्रशत्रुपक्षयोश्च समानः वर्तते, यश्च निष्कामबुद्ध्या कर्म करोति सः गुणत्रयम् अतीतः इति जानीहि ।