सर्वयोनिषु कौन्तेय...
दिखावट
(14.4 सर्वयोनिषु कौन्तेय….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
- तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः तासां ब्रह्म महत् योनिः अहं बीजप्रदः पिता ॥ ४ ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! सर्वयोनिषु याः मूर्तयः सम्भवन्ति तासां योनिः महत् ब्रह्म अहं बीजप्रदः पिता ।
शब्दार्थः
[सम्पादयतु]- सर्वयोनिषु = सकलयोनिषु
- मूर्तयः = शरीराणि
- सम्भवन्ति = जायन्ते
- महत् ब्रह्म = प्रकृतिः
- योनिः = कारणम्
- बीजप्रदः = गर्भाधायकः ।
अर्थः
[सम्पादयतु]अर्जुन ! नाना योनिषु यानि शरीराणि सम्भवन्ति तेषां माता प्रकृतिः । अहं तु परमात्मा गर्भाधायकः इति पिता ।