सत्त्वं सुखे सञ्जयति...
दिखावट
(14.9 सत्वं सुखे सञ्जं….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
- ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयति उत ॥ ९ ॥
अन्वयः
[सम्पादयतु]भारत ! सत्त्वं सुखे सञ्जयति । रजः कर्मणि । तमः तु ज्ञानम् आवृत्य प्रमादे सञ्जयति उत ।
शब्दार्थः
[सम्पादयतु]- सञ्जयति = संयोजयति
- कर्मणि = व्यापारे
- ज्ञानम् = बोधम्
- आवृत्य = आच्छाद्य
- प्रमादे उत = अनवधाने अपि
- सञ्जयति = संयोजयति ।
अर्थः
[सम्पादयतु]भारत ! एतेषु त्रिषु गुणेषु सत्त्वं दुःखकारणे सत्यपि आत्मनः सुखं जनयति । रजः सुखकारणे सत्यपि दुःखं जनयति । तमः तु ज्ञानम् आच्छाद्य अनवधानालस्यनिद्रादिकं जनयति ।