सामग्री पर जाएँ

अमृतसर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Amritsar इत्यस्मात् पुनर्निर्दिष्टम्)
अमृतसर
महानगरम्
रात्रौ स्वर्णमन्दिरस्य अपूर्वम् दृश्यम्
रात्रौ स्वर्णमन्दिरस्य अपूर्वम् दृश्यम्
देशः भारतम्
राज्यम् पञ्जाबराज्यम्
मण्डलम् अमृतसरमण्डलम्
Population
 (2011)
  महानगरम् ११,३२,७६१
  Metro
११,८३,७०५
भाषाः
  Official पञ्जाबी
Time zone UTC+5:30 (IST)
PIN
143-001
Telephone code 91 183 XXX XXXX
Vehicle registration PB02
Website www.amritsarcorp.com

अमृतसर पञ्जाबराज्ये विद्यमानं प्रमुखं नगरम् अस्‍ति । अत्र सिक्खधर्मस्य हरिमन्दिरं स्थापितम् अस्‍ति । विश्वे प्रसिद्धम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । पाकिस्तानदेशस्य सीमायाः समीपे २८ कि॰मीटर दूरे अस्ति । भारतदेशे विद्यमानेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् अस्ति। एतत् नगरं सिक्खगुरु राम दासमहोदयः क्रिस्ताब्दे १५७७ तमे वर्षे निर्मितवान् । अनेके आक्रमणकाराः अत्र आक्रमणं कृतवन्तः । तथापि पुनः एतस्य निर्माणम् अभवत् । इदानीम् एतत् अपूर्वसौन्दर्ययुक्तं, सरोवरे स्थितं सिक्खजनानां पवित्रयात्रास्थलं च अस्ति । नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानां ६८ क्षेत्र समानमिति एतस्य प्रसिद्धिः अस्ति । देवालयस्य बहिर्भागः स्वर्णपत्रैः आवृतः अस्ति । एतदर्थं ४००० किलोमितं स्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजितसिङ्गमहोदयः कारितवान् । सूर्यकिरणैः अतीवप्रकाशमानम् एतत् मन्दिरं बहु सुन्दरं दृश्यते । अस्य प्रतिबिम्बं जले साक्षात् दृष्टुं शक्यते । देवालयस्य अन्तः सिक्खधर्मस्य पवित्रग्रन्थस्य गुरुग्रन्थसाहिबस्य’ पुस्तकस्य आराधनं भवति । अस्मिन् ग्रन्थे गुरुनानकस्य उपदेशः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरवम् अर्पयन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन शोभायात्रा भवति ।

अमृतसरस्य इतरप्रेक्षणीयस्थानानि

[सम्पादयतु]

अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् नामकम् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अहिंसात्मकान्दोलने निरतानाम् उपरि जनरल् डायर् घोरं गोलिकावर्षणं कारितवान् ४७१ जनाः तद्दिने मृताः अभवन् । आङ्गलाधिकारिणाम् एतत् भीकरं कृत्यम् अधुनापि जनाः न विस्मृतवन्तः सन्ति। इतिहासानुसारम् अस्य उद्यानस्य प्रवेशाय एकम् एव द्वारम् अस्ति । मध्याह्ने ’४.३० वादनसमये अत्र सभा आयोजयिष्यते’ इति पूर्वमेव सूचितमासीत् । किन्तु सभायाः आरम्भानन्तरं डायर सैनिकैः साकमागत्य जनानामुपरि १०० मीटर् दूरतः गोलिकवर्षणस्य आदेशं कृतवान् ।पूर्वं सभायाः निषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टाना विरुद्धम् आङ्ग्लसर्वकारस्य पाशवीयकृत्यम् एतत् अविस्मरणीयम् अस्ति । इदानीमपि अत्रत्यां वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यतः अत्र वाप्यां अनेकेषां जनानां शरीराणि आसन् । इदानीम् अस्मिन् उद्याने मृतानां संस्मरणार्थ ’अमरज्योतिः’ स्थापिता अस्ति ।

अत्र देवालयस्य समीपे सुन्दरम् उद्यानं , रामगुरियास्तम्भाः, वस्तुसङ्ग्रहालयः च दर्शनीयानि सन्ति । अमृतसरनगरे एव अन्यत् दुर्गीयानानामकं स्वर्णमन्दिरमित्यस्ति । सिक्खधर्मीयानां मन्दिरसह्रशमेव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् क्रिस्ताब्दे १६ शतके निर्मितमस्ति ।

विमानमार्गः

[सम्पादयतु]

देहली-श्रीनगरमार्गः

धूमशकटमार्गः

[सम्पादयतु]

देहलीतः अमृतसर ४४७ कि.मी । अमृतसरनगरं प्रति इदानीं लाहोरतः अपि सम्पर्कः अस्ति ।

वाहनमार्गः

[सम्पादयतु]

चण्डीगढलाहोरलुधियानादेहली- इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति ।

वासार्थं गोल्डन् टेम्पल् वसतिगृहाणि निश्शुल्कतया सन्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तरानापवित्रसरोवरः (२३ कि.मी), डेरबाबानानकस्थानं ३२ कि.मी दूरे सन्ति ।

जालगवाक्ष:

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अमृतसर&oldid=488209" इत्यस्माद् प्रतिप्राप्तम्