अपर्णादेवी (भवानीपुरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Aparnadevi (Bhavanipuram) इत्यस्मात् पुनर्निर्दिष्टम्)
आन्ध्रराप्रदेशस्य देशः
आन्ध्रराप्रदेशय देशः
आन्ध्रराप्रदेशय देशः
भवानीपुरम्
भवानीपुरम् क्षेत्रम्
भवानीपुरम् क्षेत्रम्
अपर्णादेवी
अपर्णादेवी
अपर्णादेवी

अपर्णादेवी (भवानीपुरम्) एतत् शक्तिपीठं बाङ्ग्लादेशस्य बोग्रामण्डलस्य शेरपुर-उपमण्डलात् २० की.मी दूरे भवानीपुरे अस्ति ।

सम्पर्कः[सम्पादयतु]

ढाकातः प्रस्थाय चन्द्रेकोन् ब्रिड्ज् अतिक्रम्य आगन्तव्यम्। गोगा-बोट्-शोला इत्यत्र अवतीर्णं चेत् अनतिदूरे एव एतत् मन्दिरम् अस्ति । समीपे एव शाखापुकरीनामकं सरः अस्ति ।

स्थलपुराणम्[सम्पादयतु]

बहोपूर्वं कश्चन वलयविक्रेता एतेन मार्गेण गच्छन् आसीत् । तदा काचित् बालिका वलयान् धारयतु इति उक्तवती । तेजस्विन्याः वाक्चातुर्यवत्याः तस्याः वचनं श्रुत्वा आश्चर्यचकितः वलयविक्रेता "भवती कस्य गृहस्य बालिका? “ इति पृष्टवान् । तदा बालिका "अहं राजवंशीया” इति उक्तवती । वलयधारणानन्तरं सा बालिका "धनं राजमातुः हस्ततः स्वीकरोतु । अहं अत्र एव भवामि” इति अवदत् । वलयविक्रेता राजगृहम् आगत्य राजमातुः समीपे धनं पृष्टवान् । राजमाता 'अस्माकं गृहे केनापि वलयाः न धृताः खलु’ इति उक्तवती । वलयविक्रेता यत्र बालिका दृष्टा तत् स्थानं प्रति राजमातरं नीतवान् । वलयविक्रेता खिन्नः ।वलयविक्रेतुः वेदनाम् अवगत्य देवी सरोवरतः हस्तम् उन्नीय दर्शितवती । तत्र कङ्कणानि आसन् । वलयविक्रेता मया धारिताः वलयाः ते एव इति उक्तवान्। एतेन चमत्कारेण प्रभाविता राजमाता तत्र एकस्य मन्दिरस्य निर्माणं कारितवती ।तदेव इदानीन्तनशक्तिपीठम् इति उच्यते ।तत् सरोवरम् एव शाखापुकुरी । माघपूर्णिमायाः दिने अत्र विशेष-उत्सवाः आचर्यन्ते ।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः वामपादस्य नूपुरं पतितम् अस्ति इति विश्वासः । अत्रत्या देवी अपर्णानाम्ना पूज्यते । अत्रत्यशिवः वामभैरवनाम्ना पूज्यते ।