लक्ष्यसाधनक्रीडा
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
लक्ष्यसाधनक्रीडा(Archery) प्रसिद्धक्रीडासु अन्यतमा ।
कश्चन निश्चित लक्ष्यं निर्धार्य धनोः साहाय्येन बाणचानकला एव लक्ष्यसाधनं भवति । युद्धविधेः अनुसारेण लक्ष्यसाधनं बहु प्राचीनम् इति मन्यते । लक्ष्यसाधनस्य आरम्भविषये सम्यक्तया कोपि न जानति । भारतीय वेदशास्त्र-स्मृति-पुराणादि अनुसारं भारते अपि बहु पुराकालात् आरब्धं वर्तते । युरोप्-आदि पूर्वीयदेशेषु अपि लक्ष्यसाधनं बहु पुराकालात् आसीदिति श्रूयते । एषा न केवलं युद्धसम्बद्धी अपि तु क्रीडा, कुशलता, अभ्यासः च वर्तते ।
इतिहासः
[सम्पादयतु]लक्ष्यसाधनं भारते बहु पुराकालादारभ्य वर्तते । वेदे लक्ष्यसाधनविषये बहुधा श्रूयते । संहिता, ब्राह्मणादिषु च वज्रस्य हस्ते धनुर्बाणस्य उल्लेखः लभ्यते । धनुर्धरस्य यात्रा सर्वदा आपत्ति रहुतः सकुशलशरीत्या च भवति इति कौशीतकि ब्राह्मणे वर्तते । भीष्मः षट्-हस्त लम्बायमानबाणः प्रयुक्तवान् आसीत् । रघुवंशमहाकाव्ये रामलक्ष्मणयोः धनुषः विषये वर्णितं वर्तते । अभिज्ञाशाकुन्तले दुश्यन्तस्य धनुर्विद्यायाः कौशलं वर्णितं वर्तते । महाभारते अर्जुनः धनुर्विद्यायां कुशलतमः इति तु स्पष्टमेव ।
धनुषः प्रकाराः
[सम्पादयतु]- सेल्फ् बौ
- लामिनेटेड् बौ
- काम्पोसिट् बौ
- बौ शे
- लाङ्ग् बौ
- फ्लाट् बौ
- वाबनकि बौ
- क्रोस्-बौ
चित्रवीथिका
[सम्पादयतु]आधारः
[सम्पादयतु]अभिनवक्रीडातरंगिणी