अश्वारोहक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Buzkashi इत्यस्मात् पुनर्निर्दिष्टम्)

अश्वारोहक्रीडा (बजकशि)(Buzkashi,Kokpar)अफ्घानिस्थानदेशस्य साम्प्रदायिका क्रीडा वर्तते ।

अश्वारोहक्रीडा(बजकशि)(Buzkashi,Kokpar)

अश्वारोहक्रीडा अतीवभयानकम् अस्ति । एषा क्रीडा इरान्देशस्य प्रसिद्धा पोलो(Polo)क्रीडायाः समानं वर्तते । परन्तु, पोलो क्रीडायां काष्ठकन्दुकेन क्रीडन्ति । अश्वारोहक्रीडायां शिरोरहितस्य अजस्य मृतशरीरेण क्रीडन्ति । पश्चिमचीनायां (Western China) ताजिकीयाः जनाः शियाङ्ग्(Xinjiang)प्रदेशे अश्वस्य स्थाने याक्(Yak)प्राणिनम् आरुह्य क्रीडन्ति । इयम् अफगानवासिनां वीरता-साहस-हठानां स्वरूपं प्रस्तौति ।

कथं क्रीडनीयम्?[सम्पादयतु]

अस्याः क्रीडायाः क्रीडारीतिः अतीव विचित्रा वर्तते । यथा, एकम् अतीव विस्तृतं प्राङ्गणं भवति । मध्ये एकः गर्त्तः खन्यते । तस्मिन् गर्ते अजस्यशिशोः शवः स्थाप्यते । अश्वारोहिणां दलद्वयं प्राङ्गणे समागच्छतः । कश्चन सङ्केतात् परं प्रतिदले विद्यमानाः षट्तः पञ्चदशपरिमिताः क्रीडलवाः तस्माद् गर्ताद् वत्सशवं निस्सार्य पुनर्गर्ते पातयितुं चेष्टन्ते । तदर्थं परस्परं शवस्य निस्सारणे धारणे गर्तं प्रति प्रापणे पातने च सङ्घर्षणे निरताः भवन्ति । ग्रहणप्रदानानि च सम्पद्यन्ते । एतस्मिन् घातप्रत्याघाताः अपि जायन्ते । अश्वानां सञ्चालने धावने पतिताः आश्वारोहिणः तेषां खुरैः आहताः भूत्वा रक्तलिप्ताः भग्नाङ्गाः चापि भवन्ति । कदाचित् प्राणानपि त्यजन्ति
एषा क्रीडा उत्तर-अफ्घानिस्थाने,मध्यएशियाखण्डेच प्रसिद्धा वर्तते । एनां क्रीडां अधिकतया अधो लिखितेषु प्रदेशेषु क्रीडन्ति,

  • कजकीयाः(कजक्स्) (Kazakhs)
  • अफ्घानीयाः(अफ्घन्स्) (Afghans)
  • उज्बेकीयाः(उज्बेक्स्) (Uzbeks)
  • हजरीयाः(हजरस्) (Hazaras)
  • ताजिकीयाः(ताजिक्स्) (Tajiks)
  • किर्गीयाः(किर्गिज्) (Kyrgyz)
  • टर्कीयाः(टर्क्मेन्स्) (Turkmens)
  • पस्टुनीयाः(पस्टुन्स्) (Pashtuns)

अयं क्रीडोत्सवः प्रतिवर्षम् अक्टोबर्मासस्य १५ दिने शाहजाहिरशाहस्य जन्मदिवसे काबुल्देशे(Kabul) समायोज्यते । बजकशि क्रीडार्थं प्रयोज्याः अश्वाः महार्घाः भवन्ति । प्रायः पञ्चसहस्रमुद्रातः इतोपि अधिकमूल्यवन्तः भवन्ति ।

वीथिका[सम्पादयतु]

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=अश्वारोहक्रीडा&oldid=481425" इत्यस्माद् प्रतिप्राप्तम्