धलाइमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Dhalai district इत्यस्मात् पुनर्निर्दिष्टम्)
धलाइमण्डलम्

Dhalai district

ধলাই জেলা
मण्डलम्
त्रिपुराराज्ये धलाइमण्डलम्
त्रिपुराराज्ये धलाइमण्डलम्
देशः  India
जिल्हा धलाइमण्डलम्
विस्तारः २,५२३ च.कि.मी.
जनसङ्ख्या(२०११) ३,७८,२३०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://dhalai.nic.in/Welcome.html
हेजागिरी
हेजागिरी

धलाइमण्डलं (वङ्ग: ধলাই জেলা आङ्ग्ल: Dhalai District) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् आमबाशा(Ambassa) इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

धलाइमण्डलस्य विस्तारः २,५२३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि उत्तरत्रिपुरामण्डलं, पश्चिमदिशि खोवइमण्डलम्, उत्तरदिशि उनाकोट्टीमण्डल, दक्षिणदिशि बाङ्गलादेशः अस्ति ।

जनसङ्ख्या[सम्पादयतु]

धलाइमण्डलस्य जनसङ्ख्या(२०११) ३,७८,२३० अस्ति । अस्मिन् १,९४,५४४ पुरुषा:, १,८३,६८६ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.८५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४४ अस्ति । अत्र साक्षरता ८५.७२ % अस्ति । मण्डलेऽस्मिन् ८९% जना: ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

मण्डलमिदं १९९५ तमे वर्षे संस्थापितमस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च-उपमण्डलानि सन्ति । तानि-

  • आमबाशा
  • सलेमा
  • मनु
  • छामनु
  • डम्बरनगरम्

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् लेमङ्ग बुमानी, धमेल, हजागिरी इत्येतानि विशिष्टानि नृत्यानि प्रचलन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • ब्रह्मकुन्द, सिन्हा
  • खोवल
  • बिशालनगरम्
  • नीरमहाल
  • त्रिषा
  • लोङ्गथलाइ मन्दिरम्
  • कमलेश्वरी मन्दिरम्
  • रास मेला

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धलाइमण्डलम्&oldid=464692" इत्यस्माद् प्रतिप्राप्तम्