दक्षिणत्रिपुरामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

South Tripura district

দক্ষিণ ত্রিপুরা জেলা
मण्डलम्
त्रिपुराराज्ये दक्षिणत्रिपुरामण्डलम्
त्रिपुराराज्ये दक्षिणत्रिपुरामण्डलम्
देशः  India
जिल्हा दक्षिणत्रिपुरामण्डलम्
विस्तारः २,६२४ च.कि.मी.
जनसङ्ख्या(२०११) ८,७६,००१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://southtripura.nic.in/

दक्षिणत्रिपुरामण्डलं (वङ्ग: দক্ষিণ ত্রিপুরা জেলা आङ्ग्ल: South Tripura District) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् उदयपुर इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

दक्षिणत्रिपुरामण्डलस्य विस्तारः २,६२४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्व-दक्षिण-नैऋत्यदिशि बाङ्गलादेशः अस्ति, वायव्यदिशि धलाइमण्डलम्, उत्तरदिशि पश्चिमत्रिपुरामण्डलम् अस्ति । मण्डलेऽस्मिन् २००० मिल्लीमिटर्मित: वार्षिकवृष्टीपात: भवति । अत्र तिस्र: प्रमुखपर्वतावल्य: सन्ति । ता: देवतामुरा, दक्षिणबारामुरा, अथरामुरा च सन्ति । गुमती, मुहुरी, फेणी च अत्रस्था: प्रमुखनद्य: सन्ति ।

जनसङ्ख्या[सम्पादयतु]

दक्षिणत्रिपुरामण्डलस्य जनसङ्ख्या(२०११) ८,७६,००१ अस्ति । अस्मिन् ४,४७,५४४ पुरुषा:, ४,२८,४५७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.१५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ८४.६६ % अस्ति । मण्डलेऽस्मिन् ८५.९६% जना: ग्रामेषु निवसन्ति ।

कृषि:[सम्पादयतु]

कृषि: एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुल:, आलुकम्, इक्षु:, 'ज्युट', क्षुज्जनिका(mustard), चायं(tea), काफीबीजं(coffee), रबर, पनसफलं, आम्रं, इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

१९४७ तमवर्षपर्यन्तं त्रिपुराराज्यपरिसरोऽयं राजा वीरविक्रम किशोर माणिक्य बहादुर् अस्य आधिपत्ये आसीत् । अस्य मरणानन्तरं तस्य विधवा-पत्नी स्वपुत्रै: सह शासनं कृतवती । ९ सप्टेम्बर १९४७ दिनाङ्के परिसरोऽयं राज्यविभाग-३ मध्ये समाविष्ट: जात: । १ नवेम्बर १९५६ दिनाङ्के राज्यमिदं केन्द्रशासितप्रदेशत्वेन संस्थापितम् । १९७० तमे वर्षे राज्यमिदं मण्डलत्रयेणसह स्थापितम् । तदा एव अस्य मण्डलस्य स्थापना जाता ।

उपमण्डलानि[सम्पादयतु]

  • अमरपुर
  • बोकाफा
  • हृष्यमुख
  • काक्राबान्
  • कर्बुक्
  • किल्ला
  • मतरबरी
  • ओम्पी
  • राज्ञनगर
  • रुपैच्छरी
  • सत्चन्द

लोकजीवनम्[सम्पादयतु]

कृषि: अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । ३२% भूमि: एव कृषियोग्या । मण्डलस्य कृषि: वर्षाजलावलम्बिता अस्ति । इदानीं भूमि-उपयोगवर्धनाय सर्वकार: प्रयत्नरत: अस्ति । अत्रस्था: बहव: जना: दैनन्दिन-उपजीविकां कल्पयन्ति । बहुजना: सर्वकारोपरि अवलम्बिता: सन्ति । कृष्युत्पादनं विहाय बहव: जना: इक्षुकाष्ठै: वस्तूनि तक्षयन्ति, वयनं, कुम्भकार्यं, लोहकार्यं, सुवर्णकार्यं च जना: कुर्वन्ति । तेषां बहि: वितरणं च भवति । मण्डलेऽस्मिन् ३७% आदिवासिजनजातय: निवसन्ति । तासु त्रिपुरी, जमतिया, रिआङ्ग, हलम्, चक्मा इत्येतासां समावेश: भवति । अस्य प्रदेशस्य आदिवासिसंस्कृत्या: बाङ्ग्लादेशस्य संस्कृत्या सह सादृश्यं दृश्यते । अत्रस्था: जना: सामान्यत: बङ्गाली भाषया वदन्ति । आदिवासिजना: प्रायशः 'काकबोराक्' भाषाप्रयोगं कुर्वन्ति । ६८% जना: निर्व्यापारा: सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उदयपुर इत्यत्र त्रिपुरेश्वरी मन्दिरम्
  • बेलोनिया इत्यत्र तृष्णा अभयारण्यं
  • बेलोनिया इत्यत्र चन्द्रपुर-दिमताली-यवन-देवालय:
  • लैलक्बरी ओरेञ्ज स्पोट्
  • उदयपुर इत्यत्र हुरिजाला
  • अमरपुर इत्यत्र चबी मुरा
  • उदयपुर इत्यत्र भुवनेश्वरी मन्दिरम्
  • उदयपुर इत्यत्र महादेव बारी
  • सन्त्रीबाझार इत्यत्र पिल्लल् 'टुरिजम्'

बाह्यानुबन्धाः[सम्पादयतु]