गुजराती साहित्यपरिषद्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Gujarati Sahitya Parishad इत्यस्मात् पुनर्निर्दिष्टम्)
गुजराती साहित्यपरिषद्

ગુજરાતી સાહિત્ય પરિષદ

Gujarati Sahitya Parishad
स्थितिः अहमदाबाद्, गुजरातराज्यम्
स्थापनावर्षः १९०५
स्थापकः रणजितराम वावाभाई
जालस्थानम् gujaratisahityaparishad.com

गुजराती साहित्यपरिषद् ( /ˈɡʊdʒərɑːt sɑːhɪtjəpərɪʃhəd/) (गुजराती: ગુજરાતી સાહિત્ય પરિષદ, आङ्ग्ल: Gujarati Sahitya Parishad) गुजरातराज्यस्य अहमदाबाद्-महानगरे आश्रममार्गे साबरमत्याः तीरे अस्ति । गुजराती साहित्यपरिषद् गुजरातीभाषायाः साहित्यस्य विस्ताराय, रक्षणाय च कार्यरता परिषदस्ति । एषा परिषद् गुजरातीसाहित्यस्य प्रचाराय कर्मकराणां, वाणिज्यिकानां, बालकानां, यूनां, स्त्रीणाञ्च कृते रोचकसाहित्यस्य निर्माणं करोति । तत् साहित्यं वर्तमानपत्रिका-मासिकपत्रिका-वार्षिकपत्रिका-पुस्तकादीनां माध्यमेन प्रकाशयति ।

परिषदितिहासः[सम्पादयतु]

गुजरातराज्ये साहित्यिकवातावरणम् उद्भवतु इति भावं हृदि निधाय रणजितराम वावाभाई-द्वारा एतस्याः परिषदः स्थापना १९०५ तमे वर्षे जाता आसीत् । रणजितरामस्य संस्कारपुरुषः इति नामान्तरम् । रणजितरामः १९२० तमवर्षपर्यन्तं संस्थासञ्चालकरूपेण कार्यं कृतवान् आसीत् । कालान्तरे अनेके गुजरातीसाहित्यिकाः परिषदः मार्गदर्शनं कृतवन्तः ।

परिषदा अहमदाबाद्नगरे प्रप्रथमं सम्मेलनम् महतः उपन्यासकारस्य गोवर्धनरामत्रिपाठीत्यस्य अध्यक्षतायाम् आयोजितम् आसीत् । तथा च परषदा गुजरातेतरप्रदेशेषु देहली-चेन्नै-हैदराबाद्-पुणे-कोलकतादिनगरेषु अपि सम्मेलनम् आयोजितं, गुजरातीसाहित्यस्य प्रचारश्च कृतः ।

'चीमनलाल-मगनलाल'-ग्रन्थालयः[सम्पादयतु]

एतस्य ग्रन्थालयस्य स्थापना १९८० तमे वर्षे 'मार्च्'मासस्य १७ दिनाङ्के अभूत् । एतस्य ग्रन्थालयस्य विस्तारः ३४५० चतुरस्र-मीटर् अस्ति । अत्र ८०,००० अधिकानि पुस्तकानि सन्ति । एतस्मिन् ग्रन्थालये २५० अधिकाः हस्तप्रतयः, १४५० दुर्लभपुस्तकानि च सन्ति । पुस्तकानां सूचिः 'अन्तर्जाले'(Online) अपि प्राप्यते । रविवासरेऽपि एषः ग्रन्थालयः उद्घाटितः भवति । एतदेव ग्रन्थालयस्य मुख्याकर्षणमस्ति ।

परिषदि सभ्यपदम् (Membership)[सम्पादयतु]

सभ्यपदाय अत्र प्रकारद्वयमस्ति । प्रथमं "परब" इति मासिकस्य सभ्यपदं, द्वितीयं परिषदः सभ्यपदम् । परिषदः सभ्यपदं स्वीकृतं चेत् 'परब'मासिकस्य सभ्यपदं नावश्यकम् । पाठकाः वार्षिकसभ्याः, आजीवनसभ्याः वा भवितुमर्हन्ति । एतस्य शुल्कं 'मनी-ओर्डर्'माध्यमेन प्रेशयितुं, कार्यालयं गत्वा दातुं वा शक्नुवन्ति ।

'परब'मासिकविषये[सम्पादयतु]

परिषदा ४० वर्षाधिकात् चालितम् एतत् मासिकं प्रमुखं, लोकप्रियञ्च मासिकम् अस्ति । एतस्मिन् मासिके कविता-कथा-निबन्धादीनां सङ्कलनं भवति । कवितादीनां रचनासु सर्जनात्मकता तथा सारः एतस्य मासिकस्य महत्वमस्ति । 'परब'मासिके नवीनविषयाणां तथा प्रौढगुजरातीविषयाणां समावेशो भवति ।

'परब'मासिकस्य एकः अन्यः प्रकारोस्ति 'परब ओनलाइन' इति । 'परब ओनलाइन' P.D.F. प्रारूपं (Format) भवति । एतस्य विना मूल्यम् अवतरणं (Download) कर्तुं शक्यते । एतस्मिन् प्रकारे 'परब'मासिकस्य केचन एव चितविषयाः भवन्ति । परिषद् एतद् कार्यं प्रचारार्थं कृतवती अस्ति । एतेन नवपाठकानां मनसि 'परब'मासिकं प्रति आकर्षणम् उद्भवेत् इति ।

'परब'मासिके लेखकानां योगदानम्[सम्पादयतु]

ये लेखकाः स्वलेखान् एतस्मिन् मासिके प्रकाशयितुम् इच्छन्ति, ते स्वलेखान् परिषदः कार्यालयं प्रेषितुं शक्नुवन्ति । तेषु लेखेषूत्तमलेखानां चयनं कृत्वा, मासिके तेषां प्रकाशनं परिषद् करोति । एकैकस्य लेखस्य भिन्नेषु आयामेषु परीक्षणं भवति । लेखचयनप्रकिया तु सम्पादकादीनां मण्डलस्य दायित्वमस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

गुजराती साहित्यिकाः

गुजरातविद्यापीठम्

गुजरातविश्वविद्यालयः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]