सामग्री पर जाएँ

गुवाहाटी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Guwahati इत्यस्मात् पुनर्निर्दिष्टम्)

गुवाकहट्टी (आङ्ग्ल: Guwahati, ) प्राचीनकाले प्राग्ज्योतिषपुर, दुर्जय इति कथ्यते स्म। इदम् असमराज्यस्य महत् नगरम् अस्ति। भारतदेशे वेगेन वर्धमानेषु नगरेषु अन्यतमम्। भारतस्य ईशान्यदिशि विद्यमानं महद्नगरम्। ईशान्यभागस्य 'द्वारम्' इति कथ्यते। असमराज्यस्य राजधानी दिस्पुर अस्मिन् नगरे विद्यते। प्राग्ज्योतिष्पुरम् इत्यस्य अर्थः अस्ति पूर्वीयदीपः इति। अन्यः अर्थः नाम पूर्वदिशः ज्यौतिष्यम् इति। दुर्जयः नाम जेतुम् अशक्यः इति। एते प्रदेशाः वर्मणां पालानां च काले कामरूपराज्यस्य राजधान्यः आसन्। नगरे बहवः हिन्दुदेवालयाः सन्ति। कामाख्यदेवालयः, उमानन्ददेवालयः, नवग्रहदेवालयः, शुक्रेश्वर-वसिष्ठ-लङ्केश्वर-दौल्गोविन्द-दीर्घेश्वरी-उग्रतारा-रुद्रेश्वरदेवालयाः च विद्यन्ते। इदं नगरं 'देवालयनगरम्' इत्यपि निर्दिश्यते। इदं नगरं ब्रह्मपुत्रनदस्य दक्षिणतीरम् शिल्लाङ्ग्-उपत्यका इत्यनयोः मध्ये विद्यते। अस्य पश्चिमदिशि लोकप्रिय-गोपीनाथ-बरदलयः अन्ताराष्ट्रियविमाननिस्थानकं नरेङ्गिक्षेत्रं पूर्वदिशि च विद्यते। ब्रह्मपुत्रस्य उत्तरतीरे उत्तरगुवहाटी नाम्ना नगरं विस्तृतं जातम् अस्ति।

गुवाकहाट्टीमहानगरस्य विहङ्गमं दृश्यम्

ईशान्यभारतस्य प्रमुखं शिक्षण-वाणिज्यकेन्द्रमस्ति गुवाकहट्टी। इण्डियन् इन्स्टिट्यूट् आफ् टेक्नालजि, गुवहाटी विश्वविद्यालयः, काटन् महाविद्यालयः च प्रसिद्धानि शैक्षणिककेन्द्राणि सन्ति। असमराज्यस्य निर्वहण-राजनैतिककार्याणां केन्द्रमस्ति इदं नगरम्। ईशान्यभागस्य क्रीडा-सांस्कृतिककार्याणां केन्द्रमस्ति इदम्। ईशान्यभागस्य प्रमुखं परिवहनकेन्द्रमस्ति। अत्रत्या प्राणिसम्पत्तिः अपि समृद्धा वर्तते । एशियन् गजाः, गौर्, व्याघ्रः इत्यादयः विरलसस्तनीजीविनः अत्र निवसन्ति। नगरे नगरं परितः च पक्षिणः बहु विधाः भवन्ति।

नामनिष्पत्तिः

[सम्पादयतु]

गुवहाटी इत्येषः शब्दः असामीभाषायाः शब्दद्वयेन युक्तः अस्ति - 'गुवा' नाम पूगः 'हाट्' नाम विपणिः इति । आरम्भे गौहट्टि इति उच्चार्यते स्म । १९८० तमात् वर्षात् स्थानीय-उच्चारणानुगुणं परिवर्तितम् अस्ति ।

इतिहासः

[सम्पादयतु]

गुवहाट्याः नामोल्लेखः महाकाव्येषु पुराणेषु च दृश्यते इत्यतः इदम् एशियाखण्डस्य प्राचीननगरेषु अन्यतमम् इति परिगण्यते । महाभारते उल्लिख्यते यत् नरकासुरस्य भगदत्तस्य राजधानी आसीत् इदम् इति । नीलाचलपर्वते विद्यमानः कामाख्यदेव्याः प्राचीनशक्तिदेवालयः (तान्त्रिक-वज्रायनबौद्धमतस्य प्रमुखं स्थानञ्च), चित्राचलपर्वते विद्यमानः विशिष्टः जौतिषिकः नवग्रहदेवालयः, वसिष्ठस्थानस्य पुरातत्त्वावशिष्टाः, अन्यानि स्थानानि च अस्य नगरस्य पौराणिकमहत्त्वं प्राचीनेतिहासं च प्रदर्शयति ।

अम्बारिखननात् इदं नगरं ६ शतकीयमिति प्रमाणितम् । प्राग्ज्योतिष्पुरम् दुर्जय इति विभिन्नकाले निर्दिश्यमानम् इदं नगरं कामरूपसाम्राज्यस्य वर्मवंशस्य पालवंशस्य च काले राजधानी आसीत् । ह्यूयन् त्साङ्गस्य विवरणानुगुणं प्रसिद्धस्य भास्करवर्मणः (७ शतकम्) अवधौ इदं नगरं १५ कि मी मितं विस्तृतं जातम् । तस्य विशालस्य नौकागणस्य आश्रयभूमिः आसीत् (३०,००० युद्धनौकाः, हिन्दुमहासागरतः चैनादेशं यावत् समुद्रमार्गज्ञातारः आसन् तत्रत्याः अधिकारिणः) । अधुनातनस्य काटन्महाविद्यालयस्य निर्माणावसरे कृतात् खननात् प्राप्तेभ्यः इष्टिकाभित्तिभ्यः गृहेभ्यश्च इदं ज्ञायते यत् ९-११ शतकं यावत् इदं महानगरम् आर्थिकदृष्ट्या महत्त्वम् आवहति स्म इति ।

बालाजिदेवालयः, गुवहाटी

१२-१५ शतकेषु कमटसाम्राज्यस्य पतनानन्तरं नगरस्य पूर्वतनं वैभवं निरस्तं जातम् । पूर्व-पश्चिम-असमराज्यस्य कोच् हाजो, अहोम् साम्राज्ययोः प्रमुखं सेनाकेन्द्रत्वेन मात्रम् अतिष्ठत् । मुघल्जनाः असमराज्यस्य उपरि १७ वारम् आक्रमणम् अकुर्वन् । किन्तु अहोम्साम्राज्यस्य बिर् लचित् बोर्फुकानेन ते पराजिताः जाताः । गुवहाटीसमीपं १६७१ तमे वर्षे जातं सरैघाट्युद्धं बहु प्रसिद्धं युद्धं यस्मिन् मुघल्जनाः शोचनीयपराजयं प्राप्नुवन् । अति प्रमुखं पुरातत्त्वकेन्द्रमस्ति दिघालिपुखुरिसमीपे विद्यमानम् अम्बारिपुरातत्त्वकेन्द्रम् ।

नगरसंरचना

[सम्पादयतु]

अस्मिन् नगरे पान्-बझार्, पल्तान्-बझार्, फान्सि-बझार्, उझान्-बझार् च विद्यते ये नगरीयकार्येषु सहकुर्वन्ति । पल्तान्-बझार् उपाहारमन्दिराणां परिवहनव्यवस्थायाः च केन्द्रम् । पान्-बझार् शिक्षण-निर्वहण-कार्यालयीय-सांस्कृतिककेन्द्रं वर्तते । फान्सिबझार् वाणिज्यकेन्द्रं, उझान् बझार् प्रामुख्येन निवासस्थानम् अस्ति । एतेषां प्रदेशानां कारणतः इदं नगरं सर्वदा सक्रियं सजीवञ्च भवति ।

अन्तारचना

[सम्पादयतु]

मध्यमगात्रकं नगरम् इदं भारतस्य ५० तमं (जनसङ्ख्या दृष्ट्या) नगरं वर्तते । किन्तु अस्य नगरस्य गुणवत्तता अधिका वर्तते । 'औट् लुक्'पत्रिकया कृतं सर्वेक्षणं दर्शयति यत् इदं भारतस्य नगरेषु १६ स्थाने विद्यते इति । सुन्दराः भूप्रदेशाः, हितकरं वातावरणं, आधुनिकविक्रयकेन्द्राणि, आधुनिकगृहसमुच्चयाः, भवनानि, समीचीनः सामाजिकी व्यवस्था च अत्र विद्यते । तथापि अन्तारचना परिष्कारयोग्या वर्तते बहुषु विषयेषु । जलव्यवस्था अपर्याप्ता । पर्वतात् मृत्पतनं नगरे महतीं समस्यां जनयति ।

नीलाचलतः ब्रह्मपुत्रनदस्य दृश्यम्

जनसङ्ख्या

[सम्पादयतु]

भारते वेगेन वर्धमानेषु नगरेषु गुवहाटी अन्यतमम् । नगरस्य जनसङ्ख्या वेगेन अवर्धत । १९७१ तमे वर्षे २,००,००० आसीत् । १९९१ तमे वर्षे ५,००,००० जातम् । २००१ तमे वर्षे ८,०८,०२१ जातम् । २०११ तमे वर्षे २,५०,००,००० । २०११ तमे वर्षे पुरुषाः ५५% आसन्, महिलाः ४५% आसन् । ७८% जनाः अक्षरज्ञाः विद्यन्ते तेषु ८१% पुरुषाः ७४% महिलाः । हिन्दुधर्मानुयायिनः अत्र अधिकाः सन्ति ।

आर्थिकता

[सम्पादयतु]

गुवहाटी ईशान्यभागस्य प्रमुखं वाणिज्यकेन्द्रम् । वाणिज्यं, परिवहनं च अस्य प्रमुखम् आर्थिकमूलम् । इदं प्रमुखं महाविक्रयकेन्द्रं, विपणिः, अल्पशोविक्रयकेन्द्रं च । गुवहाटी टी आक्षन् केन्द्रम् जगति एव बृहत्तमं वर्तते । उत्पादनमपि एतेषु दिनेषु वर्धमानम् अस्ति । नून्मटिप्रदेशे विद्यमानम् ऐ ओ सि एल् पेट्रोलियं संस्करणकेन्द्रं प्रमुखम् उत्पादनोद्यमं वर्तते । प्रकाशक-मुद्रणोद्यमः अपि प्रमुखः वर्तते । गतदशकद्वयात् क्षेत्रविक्रयणं, प्रवासोद्यमः, संशोधनं, सांस्कृतिककलापाः, शिक्षणं च वर्धमानानि सन्ति, नगरस्य आर्थिकतासहायकानि सन्ति ।

परिवहनम्

[सम्पादयतु]

विमानम्

[सम्पादयतु]

बोर्झार्मध्ये विद्यमानं लोकप्रिय-गोपिनाथ-बार्डोलोय्-अन्ताराष्ट्रियनिस्थानकं नगरस्य केन्द्रभागतः पश्चिमदिशि २० कि मी दूरे विद्यते । अस्मिन् निस्थानके प्रतिदिनं ९५-१०० विमानयानानि अटन्ति । इतः देहली, मुम्बै, जैपुर्, कोल्कत, बेङ्गलूर्, चेन्नै, अहमदाबाद् इत्यादि नगरं प्रति विमानयानव्यवस्था वर्तते । गुवहाटीतः शिल्लाङ्ग् (३० निमेषाः), तुरा (५० निमेषाः), नहर्लगून् (ईटानगर्), तवाङ्ग् (७५ निमेषाः) नगरं प्रति हेलिकाप्टर्व्यवस्था अपि उपलभ्यते । अस्य विमाननिस्थानकस्य आधुनिकीकरणम् अधुना प्रचलति ।

रैल्यानम्

[सम्पादयतु]

गुवाहटी भारतीयरैल्-व्यवस्थायाः ईशान्यसीमामण्डले अन्तर्भवति । गुवहाटीनिःस्थानं मुख्यं वर्तते । कामाख्या, नवगुवहाटी च पश्चिमदिशि पूर्वदिशि च वर्तेते । प्रमुखानि यानानि सन्ति - गुवहाटी राजधानी-एक्प्रेस्, पूर्वूत्तर्-सम्पर्कक्रान्ति-एक्प्रेस्, कामरूप-एक्प्रेस्, सरैघाट्-एक्प्रेस्, नार्त्-ईस्ट्-एक्प्रेस्, गुवहाटी-बेङ्गलूरु-एक्प्रेस्, गुवहाटी-एर्नाक्युलम्-एक्प्रेस्, गुवहाटी-जोरत् जन्-शताब्दि-एक्प्रेस् इत्यादयः । गुवहाटीतः भारतस्य केषाञ्चन केन्द्र-पश्चिमनगराणां प्रति सम्पर्कः कल्पनीयः अस्ति ।

लोकयानम्

[सम्पादयतु]

राष्ट्रियमार्गः ३१ - इत्येषः गुवहाटीतः बिहार्, झार्खण्ड्, पश्चिमवङ्गं प्रति सम्पर्कं कल्पयति । राष्ट्रियमार्गः ३७ - इत्येषः असमस्य गोल्परतः नागलेण्डस्य दिमापुरगमनावसरे गुवहाटीतः असमस्य जोर्हत्, दिब्रुगर्, बोङ्गैगान् इत्यादीनां सर्वेषां नगराणां सम्पर्कं कल्पयति । अडबरि पल्तान् बझार् इत्येताभ्यां स्थलाभ्याम् अन्येषां राज्यानां कृते समीचीनः सम्पर्कः कल्पितः अस्ति । सर्वकारेण स्वायत्तसंस्थया च यानव्यवस्था निरुह्यते । इम्फाल्तः गुवहाटीं प्रति नियतयानव्यवस्था वर्तते । भूतान् बाङ्ग्लादेशात् आगताः यात्रिकाः सीमाप्रदेशतः नगरम् लोकयानेन आगन्तुम् अर्हन्ति ।

नौकायानम्

[सम्पादयतु]

ब्रह्मपुत्रनदस्य तीरे विद्यमानात् गुवाहटीतः राष्ट्रियजलमार्गः २ पाण्डुप्रदेशे सम्पृक्तः अस्ति ।

काटन्महाविद्यालयः

शिक्षणम् आरोग्यञ्च

[सम्पादयतु]

गुवाहटीविश्वविद्यालयः नगरस्य जलुक्बारिप्रदेशे वर्तते । असमराज्ये संस्थापितः प्रथमः विश्वविद्यालयः अयम् १९४८ तमे वर्षे कार्योन्मुखः जातः । ईशान्यभागस्य अपि आदिमः शैक्षणिकसंस्था इयम् । इण्डियाटुडे पत्रिकया कृतेन सर्वेक्षणेन ज्ञायते यत् अयं विश्वविद्यालयः भारतस्य अत्युत्तमेषु षड्विंशत्याम् अन्यतमः इति । शताधिकवर्षीयः काटन्विद्यालयः ईशान्यभारते एव पाण्डित्यदृष्ट्या सांस्कृतिकदृष्ट्या च श्रेष्ठः वर्तते । दि इण्डियन् इन्स्टिट्यूट् आफ् टेक्नालजि भारतस्य प्रमुखेषु ऐ ऐ टि संस्थासु षष्ठे स्थाने विद्यते । १९९४ तमे वर्षे आरब्धः अयं विद्यालयः शैक्षणिकदृष्ट्या संशोधनदृष्ट्या च महत्त्वपूर्णः । दि अस्साम् इञ्जिनियरिङ्ग् महाविद्यालयः, गौहाटी वैद्यविद्यालयः, दन्तविद्यालयः, अनुवैद्यविद्यालयश्च प्रमुखाः ।

सन्दर्भः

[सम्पादयतु]

बाह्यसम्पर्कतन्तवः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=गुवाहाटी&oldid=500401" इत्यस्माद् प्रतिप्राप्तम्