मिल्खा सिंह
Milkha Singh at Chandigarh Golf Club in 2012 | |
व्यक्तिगतविवरणम् | |
---|---|
उपनाम | The Flying Sikh |
राष्ट्रियता | Indian |
जन्म |
around 1930s Govindpura, Punjab, British India |
मरणम् | 19/06/2021 |
वासस्थानम् | Chandigarh, India |
उद्योगदाता | Retired; formerly of the Indian Army and Government of Punjab, India |
क्रीडा | |
क्रीडा | Track and field |
मिल्खा सिंह फ्लाईंग सिख नाम्ना देशेविदेशेषु विख्यातः, राष्ट्रकुलक्रीडास्पर्धायां सुवर्णपदकप्राप्तः स्वतन्त्रभारतस्य आद्यभारतीयः, पद्मश्रीपुरस्कारेण सम्मानितः महान् धावनपटुः कालकवलीभूतः।
जीवनम्
[सम्पादयतु]मिल्खासिंहः 20 नवम्बर 1929 तमे वर्षे पंजाबप्रदेशे जनिं लब्धवान्। सः भारतस्य विश्वप्रसिद्धः धावकः आसीत्, परन्तु तस्य आरंभिकजीवनं संघर्षमयम् आसीत्। भारत-पाकविभाजनसमये तस्य पितरौ, भ्राता, भगिनी च मुस्लिमजनैः मारिताः। तस्य पैतृकस्थानं गोविन्दपुरा,पाकिस्तान। भारतस्य विभाजनसमये तस्य सुखी परिवारः विच्छिन्नः जातः। तदा प्रचलिते हिंसाचारे आततायिनः तस्य पैतृकभवनं ज्वालितवन्तः। तस्मिन् तस्य मातापिता-भ्राता-भगिनीद्वयं अग्नौ समाहिताः। तस्याः दुर्घटनायाः स्मृतिराजीवनं दुःस्वप्न इव महोदयं ज्वालिता। सः तदा देहलीम् आगतवान्। यथा कथञ्चित भ्रात्रा सह स देहलीं प्राप्य तत्र शरणार्थीशिबिरे आश्रित्य उपहारगृहे पात्रप्रक्षालनं कृत्वा उदरपूर्तिः कृतवान्। भ्रातुः परामर्शेण अथकपरिश्रमेण १९५१ तमे वर्षे भारतीय सेनादले वृत्तिं प्राप्तवान्। एवं सः स्वपरिश्रमेण भारतीयसेनायां प्रविष्टः जातः। अनन्तरं तस्य अद्भूत-शारिरिक-प्रतिभां दृष्ट्वा तस्य चयनं 'एथेलेटिक' इत्यस्य कृते अभवत्। तदा आरभ्य सः कदापि पृष्टतः न दृष्टवान्। क्रासकण्ट्रीधावनस्पर्धायां षष्ठं स्थानं प्राप्तवान्। सेनापक्षतः विशेषप्रशिक्षणहेतु महोदयस्य चयनं जातम्।
लब्धयः
[सम्पादयतु]सः भारताय बहूनि स्वर्ण-पदकानि दापितवान्। 400 मीटर एवञ्च 200 मीटर प्रतियोगितायां सः भारतस्य पक्षतः एकः एव आसीत्, यः स्वर्णपदकं प्राप्तवान्।
८० अन्तराष्ट्रियधावनस्पर्धायां भागं गृहीत्वा ७७ स्पर्धाः स विजितवान्। परं १९५६ तमे वर्षे रोम आलम्पिकक्रीडायां स क्षणभेदेन कांस्यपदकात् वञ्चितः। आजीवनं तस्य दुःखं स अनुभूतवान्। अनन्तरं सः पाकदेशे, आस्ट्रेलियादेशे, जापानदेशे अपि स्वप्रतिभायाः परिचयं दत्तवान्।
ततः सः क्रीडाक्षेत्रात् सन्यासं स्वीकृतवान्। सः प्रशिक्षकरूपेण कार्यम् आरब्धवान्। किन्तु बहु-समयानन्तरं तस्य नाम जनाः विस्मृतवन्तः। अत्रान्तरे मिल्खासिंहस्य जीवनस्य उपरि एकस्य चलचित्रस्य निर्माणम् अभवत्। तदा आरभ्य एकवारं पुनः मिल्खासिंहः सम्पूर्णभारते प्रसिद्धः अभवत्। क्रीडागाथायां तस्य नाम सुवर्णाक्षरेण अङ्कितं न इत्यत्र संशयः। महोदयस्य महती स्पृहा आसीत् यत् तस्य जीवने कोऽपि भारतीयः आलम्पिकक्रीडायां धावनस्पर्धायां पदकं प्राप्येत्। न सा परिपूर्णा। अधुना कोऽपि धावकः तत् लक्ष्यं प्राप्नोत्।
सः पद्म-श्रीः इतिसम्मानेन अपि सम्मानितः।
परिवारः
[सम्पादयतु]तस्य पत्नी अपि १३ दिनाङ्के दिवङ्गता। सा अपि देशस्य वालिबालगणस्य पूर्वनायिका आसीत्। महोदयस्य पुत्रः जीव मिल्खा प्रसिद्धः गोल्फक्रीडापटुः अस्ति। स्वतन्त्रभारते क्रिकेटं विहाय अन्यक्रीडाप्रकराणां चयनं कृत्वा युवकाः कीर्तिं गौरवं च प्राप्तुं शक्नुवन्ति एतस्य साक्षादुदाहरणं अस्ति मिल्खासिंहः।
मृत्युः
[सम्पादयतु]18 जुन 2021 तमे वर्षे सः दिवंगतः जातः। भारतस्य प्रधानमन्त्री, अनेके नेतारः, अभिनेतारः तस्मै श्रद्धाञ्जलीं दत्तवन्तः।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- "Transcript of a webchat". Rediff. 22 August 2001.
- "Video of Singh in the closing stages of the 440 yards (400m) race, 1958 British Empire & Commonwealth Games". IBN. Archived from the original on 2015-06-08. आह्रियत 2015-01-05.