सदस्यः:Nivedita2015/प्रयोगपृष्ठम्/3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Nivedita2015/प्रयोगपृष्ठम्/3 इत्यस्मात् पुनर्निर्दिष्टम्)
Nivedita2015/प्रयोगपृष्ठम्/3
श्लोकसङ्ख्या
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः -
अग्रिमश्लोकः मूढ जहीहि धनागमतृष्णाम्

भज गोविन्दम् इत्यनेन श्लोकेन भगवान् आदिशङ्कराचार्यः गोविन्दभजनं कर्तुं कथयति । व्यर्थकार्यं त्यक्त्वा गोविन्दस्य स्मरणमेव योगम् इति वदति ।

श्लोकः[सम्पादयतु]

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे ।।१।।

पदच्छेदः[सम्पादयतु]

भज, गोविन्दम्, भज, गोविन्दम्, गोविन्दम्, भज, मूढमते, संप्राप्ते, सन्निहिते, काले, न, हि, न, हि, रक्षति, डुकृञ्करणे ।

अन्वयः[सम्पादयतु]

मूढमते । (त्वं) गोविन्दं भज । (त्वं) गोविन्दं भज । (त्वं) गोविन्दं भज । काले सन्निहिते संप्राप्ते (सति) “डुकृञ्करणे” नहि नहि रक्षति ।

अर्थः[सम्पादयतु]

हे मन्दबुद्धे । त्वं गोविन्दं निरन्तरं भज । मरणकाले अत्यन्तं सन्निहिते सति व्याकरणादीतरशास्त्राध्ययनं संसारमुक्त्ये न कल्पते । अतः इदानीं तव गोविन्दभजनमेव कर्तव्यम् ।

पदपरिचयः[सम्पादयतु]

  • सम्बोधनपदम् = मूढमते [ इ. पुं. संप्र. एक. ]
  • क्रियापदम् = भज [ भज “भज सेवायाम्” पर. लोट्. मपु. एक. ]
  • कर्मपदम् = गोविन्दम् [ अ. पुं. द्वि. एक. ]
  • कर्तृपदम् = (त्वम्)
  • क्रियापदम् = रक्षति [ रक्ष् “रक्ष पालने” पर. लट्. प्रपु. एक. ]
  • क्रियाविशेषणम् = न [ अव्ययम् ]
  • क्रियाविशेषणम् = हि [ अव्ययम् ]
  • कर्मपदम् = “डुकृञ्करणे” [ एतद् पदम् अस्मिन् श्लोके संज्ञा रूपेण प्रथमा विभिक्त्यार्थे एक वचने उपयुङ्क्ते । एतद् पणिनेः धातुपाठे एकं सूत्रम् । धातोः औपदेशिक रूपम् सूचयति । कृ धातुः करणकार्ये भवति इति एतस्य सूत्रस्य अर्थः ]
  • कालवाचक-वाक्यांशः
  • ज्ञापक-क्रियापदम् = संप्राप्ते [ अ. पुं. स. एक. ]
  • क्रिया-आश्रय-कर्तृपदम् = काले [ अ. पुं. स. एक. ]
  • कर्तृविशेषणम् =सन्निहिते [ अ. पुं. स. एक. ]
  • सतिसप्तमी-पदम् = (सति)

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  • गोविन्दं भज = गोविन्दम् + भज – अनुस्वारसन्धिः ।

समासः[सम्पादयतु]

  • मूढमते = मूढा मतिः यस्य सः मूढमतिः - समानाधिकरणबहुव्रीहिः । सम्बोधनरूपम् ।
  • गोविन्दम् = गोभिः विद्यते (उपनिशद्वाक्यैः ज्ञायते) इति गोविन्दः - उपपदसामासः । तम् ।

कृदन्तः[सम्पादयतु]

  • संप्राप्ते – सम् + प्र + आप् "आप्लृ व्याप्तौ" + क्त प्रत्ययः (कर्मणि) - संप्राप्तः । तस्मिन् ।
  • सन्निहिते – सम् + नि + हि “हि गतौ वृद्धौ च” + क्त प्रत्ययः (कर्मणि) - सन्निहितः । तस्मिन् ।
  • गोविन्दम् = गो + विन्द + श प्रत्ययः (कर्तरि) । गाः विन्दति इति गोविन्दः । धेनूः प्राप्नोति इत्यर्थः । तम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

can't use in sandboxभज गोविन्दम्]]