सदस्यः:AbHiSHARMA143

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
॥ असावादित्यो ब्रह्म ॥


वैष्णवानां हरिस्त्वं शिवे धूर्जटिर्-

-शक्तिरूपो नतीनां कृतान्तः परम्।

यो गणारूढ़निर्यूहद्वैमातुरः

सः सुरेशो रविस्त्वं सदा स्तोचताम्॥

- आचार्यश्रीकौशलेन्द्रकृष्णकृते आदित्यहर्षणस्तोत्रे


लाघवेन
sa-3एषः उपयोजकः उत्तमतया-संस्कृतेन लेखितुं शक्नोति।


hi-3 यह सदस्य हिन्दी भाषा में प्रवीण है।
en-3This user is able to contribute with an advanced level of English.


हार्दं स्वागतम्


नमस्कार:,

मम नाम कौशलेन्द्रकृष्णशर्मा (आचार्यश्रीकौशलेन्द्रकृष्णः)। आङ्ग्लमतेन औक्टोबरमासस्य पञ्चमदिनाङ्के शुक्रवासरे १९९५ तमे वर्षे जम्बूद्वीपे भरतखण्डे भारतवर्षे छत्तीसगढ़प्रदेशे कवर्धामण्डलान्तर्गते जोगीपुरनाम्नी ग्रामे मम जन्मोऽभवत्। अद्याहं भारतदेशांतर्गते छत्तीसगढ़स्य कवर्धानगरे वसामि। मम लोकभाषा हिन्दीत्यस्ति, संस्कृत एव मम मातृभाषा। ब्राह्मणवंशप्रभावेण संस्कृते मम अगाधरुचिः। केचञ् जनाः कथयन्ति मम रुच्याः कारणो मम ब्राह्मणवर्णः परंतु रुचिस्तु मानसिके भवत्येष मम व्यक्तिगतविचारः। आं, मम वातावरणः संस्कृतमयोऽप्यासीत्तदा। बाल्यावस्थायाः किचित् स्मरणाः सन्ति तत्र मम पितुः संस्कृतश्लोकस्य पाठनं कारयति (वन्दे संस्कृतमातरम्)। अहं हिन्दीविकीपेडियायाः सदस्योऽस्मि। वैदिके संस्कृते, इतिहासे, खगोलशास्त्रे, वेदे, पुराणे च मे रुचिः। २०१४ तमवर्षस मे मासात् विकीपेडियाकार्ये अहं आत्मानं योजितवान्।

मम कार्यक्षेत्राः[सम्पादयतु]

क्रीड़ा, धर्मः, ग्रंथः, देवीदेवता, पुराणो वेदश्च, पुरातनसभ्यतेतिहासादयः विकीपेडियास्वतंत्रविश्वकोशान्तर्गते मम कार्यक्षेत्राः।

संपर्कसूत्रः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:AbHiSHARMA143&oldid=471891" इत्यस्माद् प्रतिप्राप्तम्