पर्वताः
पर्वति - पर्व (पूरणे) अतच् (उ ३-११०)
- पयोधि तर्णकपदं पर्वतं सिकतामयम् ।
- पातालं च स्थलीपृष्ठं प्रैक्षतामितविक्रमः ॥ याद-२२-५१
पर्वतः सीमिते भूप्रदेशे शिखररूपेण स्थितः महा भूराशिः एव । समुद्रस्तरम् आधारीकृत्य स्थितः अत्युन्नतः पर्वतः नाम मौण्टेवरेस्ट्(८,८४८ मी (२९,०२९ पादमितम्)) एशियाखण्डे हिमालये वर्तते । सौरमण्डले अत्युन्नतः पर्वतः नाम ओलिम्पस् मान्स् (२१,१७१ मी (६९,४५९ पादमितम्)) मङ्गलग्रहे विद्यते । एशियाखण्डे ६४%, युरोपखण्डे २५%, दक्षिणामेरिकाखण्डे २२%, आस्ट्रेलियाखण्डे १७%, आफ्रिकाखण्डे ३% भागाः पर्वतप्रदेशाः । भूमौ २४% पर्वतभागाः । १०% जनाः पर्वतीयप्रदेशे निवसन्ति । जगतः बह्व्यः नद्यः पर्वतमूलाः । ५०% मानवाः पर्वतजलमेव अवलम्बन्ते जीवनाय ।
बृहत्पर्वताः
[सम्पादयतु]सप्तशतमीटर्तः अपि उन्नताः शताधिकाः पर्वताः एषियाखण्डे एव सन्ति । तेषु बहवः हिमालयपर्वतश्रेण्याम् एव सन्ति । कस्मिंश्चिदन्यखण्डे एतावन्तः उन्नतपर्वताः न सन्ति । यूरोपखण्डस्य उन्नतः शिखरः रषियादेशे स्थितः मौण्ट् एल्ब्रस् इति। एष मौण्ट् एवरेस्ट् शिखरस्य अपेक्षया ३००० मीटर् न्यूनः अस्ति । विविधेषु खण्डेषु स्थिताः अत्युन्नताः पर्वताः
क्रमसङ्ख्या | खण्डः | पर्वतः | औन्नत्यम् |
---|---|---|---|
१ | एशियाखण्डः | एवरेष्ट्पर्वतः | ८८४८ मीटर्मितः |
२ | दक्षिण -अमेरिकाखण्डः | अकाङ्कागुवा | ६९६० मीटर्मितः |
३ | उत्तर- अमेरिकाखण्डः | म्याक् किन्ले | ६१९४ मीटर्मितः |
४ | आफ्रिकाखण्डः | किलिमञ्जारो | ५८९५ मीटर्मितः |
५ | यूरोपखण्डः | एल्ब्रस् | ५६३३ मीटर्मितः |
६ | अण्टार्टिकाखण्डः | विन्सन् म्यसिफ् | ५१४० मीटर्मितः |
७ | ओषानिया | जया | ४८८३ मीटर्मितः |
विश्वस्य दश बृहत्शिखराणि । सर्वे हैमालयश्रेण्याम् एव सन्ति ।
क्रमसङ्ख्या | शिखरम् | औन्नत्यम् |
---|---|---|
१ | एवरेस्ट् | ८८४८ मीटर्मितम् |
२ | के२ (गोड्विन् अस्टिन्) | ८६११मीटर्मितम् |
३ | काञ्चनगङ्गा | ८५९८ मीटर्मितम् |
४ | ल्होत्से | ८५११ मीटर्मितम् |
५ | यालुङ्ग् काङ्ग् | ८५०२ मीटर्मितम् |
६ | मकालु | ८४८१ मीटर्मितम् |
७ | धवलगिरिः | ८१७२ मीटर्मितम् |
८ | मानास्लु | ८१५६ मीटर्मितम् |
९ | चो ओयु | ८१२६ मीटर्मितम् |
१० | नङ्गपर्वतः | ८८४८ मीटर्मितम् |
युरोपस्य उन्नतानि शिखराणि
[सम्पादयतु]यूरोपस्य अत्युन्नतानि शिखराणि । शिखरत्रयं रषिया देशस्य काकसस् पर्वतश्रेण्यां सन्ति । अन्यानि अल्फ्स्पर्वतश्रेण्यां सन्ति ।
क्रमसंख्या | शिखरम् | औन्नत्यम् |
---|---|---|
१ | एल्ब्रस् | ५६३३ मीटरमितम् |
२ | डैक् तावु | ५२०२ मीटरमितम् |
३ | शखर | ५०५८ मीटरमितम् |
४ | मौण्ट् ब्रस् | ४८१० मीटरमितम् |
५ | माण्टे रोसा | ४६३३ मीटरमितम् |
६ | वैष्टार्न् | ४५१२ मीटरमितम् |
अत्युन्नतः पर्वतः
[सम्पादयतु]प्रपञ्चे अत्युन्नतः पर्वतः मौण्ट् एवरेस्ट् नेपाल-टिबेट्सीमयोः अस्ति । एतस्य प्राचीनं नाम चामो लुङ्मा इति (टिबेट् भाषा) अस्य अर्थः विश्वमातृदेवता । समुद्रतलतः यदि मापयामः तर्हि प्रपञ्चे मौण्ट्-एवरेस्ट् एव उन्नतः शिखरः ।
परन्तु पर्वतस्य मूलतः अग्रं यावत् मापयाम तर्हि हवाये मध्ये स्थितः मौना की प्रपञ्चस्य अत्युन्नतः पर्वतः । अस्य मूलं समुद्रतले अस्ति । अस्य औन्नत्यं ४२०५ मीटर्मितम् अस्ति । मूलतः १०,२०३ मीटर्मितमस्ति । (एवरेस्टतः अपि १३५५ मीटर्मितं यावत् अधिकः उन्नतः)
अति दीर्घाः पर्वतश्रेण्यः
[सम्पादयतु]क्र सं | पर्वतश्रेणी | स्थानम् | दैर्घ्यम् |
---|---|---|---|
१ | हिन्दूसागरशान्तसागरयोः मध्ये | निगूहिता पर्वतश्रेणी | ३०,७२० किलोमीटर्युता |
२ | आण्डीस् | दक्षिण-अमेरिका | ७.२४० किलोमीटर्युता |
३ | राकिपर्वतश्रेणी | उत्तर-अमेरिका | ६,०३० किलोमीटर्युता |
४ | हिमालयकाराकोरं-हिन्दूकुशश्रेणी | एशिया | ३,८६० किलोमीटर्युता |
५ | ग्रेट् डिवैड्ग् रेञ्ज् | आस्ट्रेलिया | ३.६२० किलोमीटर्युता |
पर्वतारोहणविक्रमः
[सम्पादयतु]पर्वतारोहणसाहसक्रीडायाः आरम्भः १८ शततमे वर्षे अभवत् ; दक्षिणयूरोपस्य आल्प्स्पर्वतश्रेण्याम् आल्पैनस्य मौण्ट् ब्ल्लङ्क् शिखरम् (औन्नत्यं ४८१० मीटर्मितम्) क्रि.श १७८६ तमे वर्षे अरूढम् । क्रि.श १८७० तमवर्षे प्रायः आल्पैन्पर्वतश्रेणीषु स्थितानि सर्वाणि शिखाराणि आरूढानि । ततः जगति अन्यबृहतशिखराणाम् आरोहणम् आरब्धम् । विविधखण्डेषु प्रथमतया शिखरारोहणं कस्मिन् वर्षे अभवत् इति अत्र प्रदत्तम्
पर्वतः | वर्षम् |
---|---|
एवरेष्ट्पर्वतः | १९५३ |
अकाङ्कागुवा | १८९७ |
म्याक् किन्ले | १९१३ |
किलिमञ्जारो | १८८९ |
एल्ब्रस् | १८७४ |
विन्सन् म्यसिफ् | १९६६ |
जया | १९६२ |