प्रपञ्चमिथ्यात्वानुमानखण्डनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रपञ्चमिथ्यात्वानुमानखण्डनस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। मायावादखण्डनम्, उपाधिखण्डनम्, प्रपञ्चमिथ्यात्वानुमानखण्डनञ्च खण्डनत्रयम् इति नाम्ना प्रसिद्धानि भवन्ति। वादग्रन्थाः इत्यपि प्रसिद्धिरस्ति। त्रयोऽपि ग्रन्थाः अद्वैतमतस्य विमर्शार्थम् एव प्रवृत्ताः भवन्ति। अद्वैतमते ब्रह्मसत्यं जगन्मिथ्या इति प्रतिपादयन्ति। दृश्यत्वात्, जडत्वात्, परिच्छिनत्वात् हेतुभिः जगन्मिथ्यात्वं साधयन्ति। प्रपञ्चमिथ्यात्वानुमाने असिद्धिः, विरोधः, आश्रयासिद्धिः, अप्रसिद्धविशेषणत्वम्, सिद्धसाधनता, अनेकान्तिकता, साधनवैकल्यम्, उपाधिदोशाः दर्शिताः सन्ति। यत् दृश्यते तत् मिथ्या इति यदा वदामः तर्हि ब्रह्मा अपि दृश्यते तर्हि सोऽपि मिथ्या स्यात्। ईदृश सूक्ष्म दोषान् अस्मिन् ग्रन्थे निरूपितवन्तः। समनन्तरं पक्ष, विपक्ष, दृष्टान्त, हेतु इत्यादीनां पारिभाषिकपदानां लक्षणानि निरूपितानि सन्ति। खण्डनत्रयेभ्यः ग्रन्थेभ्यः श्री जयतीर्थस्य, श्री श्रीनिवासस्य च टीका प्रसिद्धा भवति।